Enter your Email Address to subscribe to our newsletters
जगदलपुरम्, 26 अप्रैलमासः (हि.स.)। बस्तरजनपदमुख्यालये स्थितः मैत्रीसंघविद्यानिकेतन उच्चमाध्यमिकविद्यालयस्य परीक्षायाः परिणामः अद्य घोषितः। एतस्मिन् समये मुख्यातिथिः महापौरः संजय पाण्डेयः सर्वेभ्यः छात्रेभ्यः परीक्षापरिणामं दत्त्वा उज्ज्वलभविष्यस्य कामनाम् अकरोत्। अस्मिन् अवसरे संजयपाण्डेयः अवदत् यत् ये अस्मिन् विषये अपेक्षिता सफलतां प्राप्तुं न शक्तवन्तः, तेषां निराशायाः स्थाने द्विगुणं परिश्रमं कृत्वा अग्रे गन्तव्यम् इति। सः सफलान् प्रतिभागिभ्यः अभिनन्दनं कृतवान्। अस्मिन् अवसरे संस्थायाः प्राचार्यः इन्द्राणीनन्दी, संयुक्तसचिवः डी पी बरालः, विद्यालयसचिवः संजीवशीलः, महासचिवः सुनीलशाहा, शिक्षकः रंजिताकौरः, निहारिकासाहू, खुशबूसाहू, शोभाधार, तोशिकाबोरकर, ऋतुराजसिंहः, राखी चौधरी, विवेक जैन एवं अभिभावकाः उपस्थिताः आसन् |
हिन्दुस्थान समाचार / ANSHU GUPTA