Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 27 अप्रैलमासः (हि. स.)।मुख्यमन्त्रिणं पुष्करसिंह-धामीवर्यं प्रति रविवासरे मुख्यमन्त्री-निवासे हेस्को-संस्थापकः पद्मभूषण-पुरस्कृतः डॉ. अनिलप्रकाश-जोशी, इंफोसिस् ग्लोबल् (सस्टेनेबिलिटी एवं डिज़ाइन व्यवसायस्य) भूतपूर्वः उपाध्यक्षः डॉ. कोरे ग्लिकमैनः, च कॉरपोरेट्-जगतस्य अमितभाटियः च शिष्टाचाररूपेण भेटं कृतवन्तः।
एतेषां मध्ये विविधेषु पर्यावरणीय-विकाससंबन्धिषु विषयेषु विस्तारतः चर्चाऽभवत्।
इंफोसिस् ग्लोबलस्य पूर्वोपाध्यक्षः, ऑक्सफोर्ड् विश्वविद्यालयस्य अतिथिप्राध्यापकः च डॉ. कोरे ग्लिकमैनः उत्तराखण्डराज्ये प्रथमवारम् ग्रॉस एनवायरमेंट प्रोडक्ट् (G.E.P.) व्यवस्था स्थापयित्वा पर्यावरणपक्षेषु गंभीरतया कार्यं कुर्वतः मुख्यमन्त्रिणः आभारं व्यक्तवान्।
डॉ. कोरे अवदत् यत् शीघ्रमेव पिट्सबर्ग् नगरे (अमेरिकादेशे) वैश्विकस्तरे पर्यावरणपक्षेषु महत्त्वपूर्णं सम्मेलनं सम्पद्यते, यस्मिन् G.E.P. विषये, पारिस्थितिकी-आर्थिकी च सन्तुलनस्य विषये च विस्तृतचर्चा भविष्यति।तस्मिन् सम्मेलने अपि मुख्यमन्त्रिणं धामीवर्यं सः आमन्त्रितवान्।मुख्यमन्त्रिणा उक्तं यत् उत्तराखण्डराज्यं विकासं पर्यावरणं च सन्तुलयित्वा कार्यं कुर्वन् अस्ति।सः अवदत् यत् जलसङ्ग्रक्षणे, वनीयसम्पदासु संरक्षणे च राज्ये विविधकार्याणि सम्पद्यन्ते।अस्मिन् अवसरे डॉ. शिवम् जोशी अपि उपस्थितः आसीत्।
-----
हिन्दुस्थान समाचार