Enter your Email Address to subscribe to our newsletters
मंदसौरः, 27 अप्रैलमासः (हि.स.)।मध्यप्रदेशराज्यस्य मन्दसौरजिलान्तर्गतं नारायणगढ-थानाक्षेत्रे ग्रामकाचरियाचौपाटी समीपे रविवासरदिवसे मध्यान्हसमये यात्रिभिः पूर्णा एकः तीव्रवेगयुक्तः ईको-वाहनम् एकस्मै मोटरसायकिल्-वाहकाय धक्का प्रदाय अनन्तरम् कूपे पतितः।अस्मिन् दुःखदघटनायाम् अनेकेषां मृत्युः जात इति सूचना प्राप्ता।
सूचनायाः प्राप्तेः अनन्तरं पुलिस् अधिकारीः घटनास्थले आगत्य स्थानीयजनानां साहाय्येन उद्धारकार्यं आरब्धवन्तः।एतेषुक्षणेषु अपि रक्षाकार्यम् प्रवर्तमानम् अस्ति। रविवासरे उज्जैनजिलस्य उन्हेल्-प्रदेशात् एकस्मिन् ईको-वाहने दशाधिकाः यात्रिकाः सञ्जाता आसीत्।
काचरियाचौपाटी ग्रामस्य समीपे अपराह्णे सायं प्रथमयामे वाहनम् असन्तुलितम् अभवत् तथा च एकं द्विचक्रिकायानं (बाइकं) आकृष्ट्य कूपे पतितम्।घटनायाम् द्विचक्रिकायानस्य यात्रिकस्य तत्क्षणमेव मृत्युर्निर्वृत्तः।यथासूच्यते, वाहनस्य अन्तः बद्धाः केचन यात्रिकाः अपि मृताः।चत्वारः जनाः घायलाः अभवन्, यान् रक्षायाः अनन्तरं मन्दसौरजिलाचिकित्सालये प्रवेशितवन्तः। साम्प्रतम् अपि वहेन्यां (वाहने) केचन जनाः बद्धाः सन्ति।मृतस्य द्विचक्रिकायानस्य यात्रिकस्य नाम गोबरसिंहः, वासः नाहरगढ-अबाकेडी इति निर्दिष्टम्। एवं वैन्-सवाराणां रक्षणाय कूपे प्रविष्टस्य ४० वर्षीयस्य मनोहरसिंहस्य (वासः दोरवाडी) अपि मृत्युर्निर्वृत्तः।घटनास्थले उद्धारकार्यं प्रचलति।महती क्रेन्-यन्त्रिका आहूता या द्वारा वाहनम् कूपात् उद्धर्तुं प्रयत्नः क्रियते। उपमुख्यमन्त्री जगदीशदेवडा, जिलाधिकारी अदितिगर्ग, पुलिस् अधीक्षक अभिषेकानन्दः, अतिरिक्त पुलिस् अधीक्षक गौतमसोलंकी, उपविभागीय पुलिसाधिकारी नरेन्द्रसोलंकी च घटनास्थलम् आगता। रक्षाकार्यं अपि तीव्रेण प्रवृत्तम्।जिलाचिकित्सालयात् अपि ऑक्सिजन-चषकाः (सिलिण्डराः) प्रेषिताः।समग्रविवरणस्य प्राप्त्यनन्तरं विस्तीर्णसमाचारः प्रकाशितः भविष्यति।
-------------
हिन्दुस्थान समाचार