Enter your Email Address to subscribe to our newsletters
सरायकेला, 27 अप्रैलमासः (हि.स.)। नीमडीहथानाक्षेत्रस्य झिम्डीग्रामनिवासी तस्लीमअंसारी पुलिसया रविवासरे गृहीतः तथा न्यायिकनिग्रहे कारागारं प्रेषितः।
प्राप्तसूचनानुसार तस्लीमअंसारिणा एका युवत्याः अपहरणम् कृतमिति अभियोगः आरोपितः। घटनायाः अनन्तरम् ग्रामे महत् तनावः व्याप्तः। क्रुद्धैः ग्रामवासिभिः तस्लीमअंसारिणः गृहं दग्धम्, येन गृहस्य महती हानि: अभवत्। घटनास्थले महद् कोलाहलः अफरातफरी च उत्पन्ना। स्थितेः नियन्त्रणार्थम् पुलिसया निषेधाज्ञा प्रवर्तिता तथा अतिरिक्तबलस्य नियुक्तिः कृता।
नीमडीहपुलिसया शीघ्रतापूर्वकं कार्यं कृत्वा अभियुक्तः तस्लीमअंसारी गृहीतः तथा पीडिता युवती सकुशलं उद्दीर्णा। पुलिसाधिकृतैः निगदितम् यत् अस्य प्रकरणस्य संदर्भे विधिसम्मतानुसारं अग्रगमनकार्यं प्रवर्तमानम् अस्ति, आवश्यकसाक्ष्यसङ्ग्रहणं च कानूनीप्रक्रियाः च सञ्चाल्यमानाः सन्ति।
नीमडीहपुलिसया कृतायाः शीघ्रकार्यमयत्वेन क्षेत्रे तनावः किञ्चित् न्यूतः जातः, तथापि पुलिसबलं क्षेत्रे निरन्तरं गश्तिं कुर्वन् स्थितेः निरीक्षणं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार