चारधाम्नां हेमकुंड साहिबस्य च यात्रायां आगतानां 77 पाकिस्तानी यात्रिणां पंजीकरणं निरस्तम्
देहरादूनम्, 27 अप्रैलमासः (हि.स.)।पर्यटनमन्त्रिणा सतपालमहाराजेन उक्तम् यत् चतुर्धामयात्रायाः हेमकुण्डसाहिबयात्रायाश्च कृते सप्तसप्ततिः पाकिस्थानीययात्रिकाः पञ्जीकरणं कृतवन्तः, तेषां सर्वेषां पञ्जीकरणं तत्क्षणमेव निरस्तीकृतम्। ते उक्तवन्तः यत् चतुर्धा
सतपाल महाराज


देहरादूनम्, 27 अप्रैलमासः (हि.स.)।पर्यटनमन्त्रिणा सतपालमहाराजेन उक्तम् यत् चतुर्धामयात्रायाः हेमकुण्डसाहिबयात्रायाश्च कृते सप्तसप्ततिः पाकिस्थानीययात्रिकाः पञ्जीकरणं कृतवन्तः, तेषां सर्वेषां पञ्जीकरणं तत्क्षणमेव निरस्तीकृतम्। ते उक्तवन्तः यत् चतुर्धामयात्रायाः सर्वाः तैयारीः पूर्णाः कृताः। अद्यापि द्वाविंशति लक्षाधिकाः श्रद्धालवः चतुर्धामयात्रायै ऑनलाइन-पञ्जीकरणं कृतवन्तः। एतेषु पञ्चविंशतिसहस्राधिकाः विदेशीयश्रद्धालवः १८५ राष्ट्रेभ्यः आगताः सन्ति।

पर्यटनमन्त्रिणा सतपालमहाराजेन उक्तम् यत् चतुर्धामयात्रामार्गेषु यातायातव्यवस्थापनाय जनपदउत्तरकाशीपुलिसदलं विभागाय दश नवानि मोटर्-सायकिलानि दत्तानि। गङ्गन्याः डबरानी पर्यन्तम्, डबरानीतः सुक्की पर्यन्तम्, झालातः हर्षिल् पर्यन्तम्, धरालितः भैरवघाटी पर्यन्तम्, सिल्क्यारातः राडीतटम्, राडीतटात् और्छा पर्यन्तम्, बडकोटात् दोबाटा पर्यन्तम्, पालिगाडात् स्यानाचट्टी पर्यन्तम्, स्यानातः रानाचट्टी पर्यन्तम्, रानाचट्टीतः हनुमानचट्टी, हनुमानचट्टीतः जानकीचट्टी-खरसाली पर्यन्तं च अतीव संकीर्णेषु संवेदनशीलमार्गेषु सततं गश्तीकार्यं करिष्यन्ति।

यात्रिकाणां सुविधायै हेलिकप्टरटिकटनाम् अपव्यापानं च रोद्धुं यात्रा-मार्गेषु अव्यवस्थितवाहनस्थापनशुल्कस्य अनुचितवसूलिकृत्ये च अधिकारियों विषये कठोरं कार्यप्रवर्तनं कर्तव्यमिति निर्देशः अपि दत्तः।

महाराजः उक्तवान् यत् चतुर्धामयात्रायामागच्छतां श्रद्धालूनां कृते ऑनलाइन, ऑफलाइन च पञ्जीकरणस्य तथा मोबाइल्-एप् द्वारा पञ्जीकरणस्य सुविधायाः साथम् आधारसंख्यया अपि पञ्जीकरणस्य सुविधा प्रदत्ता। ऑफलाइन-पञ्जीकरणं सोमवासरे, २८ अप्रैल् दिनाङ्के आरभ्य चत्वारि स्थानेषु भविष्यति — हरिद्वारे, ऋषिकेशे, विकासनगर्यां तथा हरबर्टपुरे च।

हिन्दुस्थान समाचार