दिल्ली देहातस्य विकासाय निरंतरं कार्यं करोति सर्वकारः -रेखा गुप्ता
नवदिल्ली, 27 अप्रैलमासः (हि.स.)।मुख्यमन्त्रिणी रेखागुप्ता महोदया रविवासरे उक्तवती यत् सरकारा दिल्ली-ग्रामप्रदेशस्य विकासाय निरन्तरं कार्यं कुर्वती अस्ति। सा अवदत् यत् दिल्ली-सरकारा स्वीये राजस्वमध्ये विशेषरूपेण १२०० कोटि-रूप्यकाणि दिल्ली-ग्रामप्रदेशव
शालीमार बाग विधानसभा क्षेत्र में शनिवार को एक सभा को संबोधित करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 27 अप्रैलमासः (हि.स.)।मुख्यमन्त्रिणी रेखागुप्ता महोदया रविवासरे उक्तवती यत् सरकारा दिल्ली-ग्रामप्रदेशस्य विकासाय निरन्तरं कार्यं कुर्वती अस्ति। सा अवदत् यत् दिल्ली-सरकारा स्वीये राजस्वमध्ये विशेषरूपेण १२०० कोटि-रूप्यकाणि दिल्ली-ग्रामप्रदेशविकासाय नियुक्तानि। एतेन ग्रामाणां कृते मार्गाणां नालिकानां च समग्राधारभूतसंरचनायाः विकासकार्याणि क्रियन्ते।

मुख्यमन्त्रिणी पत्रकारान् सम्भाषमाणा उक्तवती यत् दिल्ली-सर्वकारः ११० ग्राममितया इन्धनगैसपाइपनलिकया संयोजितवती तथा अवशिष्टग्रामसंयोजनाय अपि कार्यं आरब्धम्।

मुख्यमन्त्रिणी उक्तवती यत् दिल्ली-ग्रामप्रदेशे महतीः परियोजनाः सर्वकारः आरभते। एषु परियोजनासु आरभ्यमाणासु देशीयजनानां कृते जीविकोपलब्धिः भविष्यति।

सा अवदत् यत् षट्-शतानि ग्रामाणि विकासकार्येण संपन्नानि भविष्यन्ति। ग्रामविकासे दिल्ली-सरकारा विशेषं ध्यानं यच्छति।

मुख्यमन्त्रिण्या उक्तं यत् ग्रामेषु परिधिराशिः (सर्किल रेट्), ट्रैक्टरसम्बद्धाः च विविधाः समस्याः चर्चिताः सन्ति, तेषां समाधानदिशायाम् अपि सरकारा शीघ्रगत्या प्रगतिं करोति।

एतेन पूर्वं मुख्यमन्त्रिण्या अद्य कंझावलानगरे देव्यमातुः दर्शनं कृतम्। सा एक्स इति माध्यमे लिखितवती यत् कंझावलायाम् देवीमातुः पूजार्चनायाम् लीनत्वेन अद्भुतं शक्तेः शान्तेः च अनुभवः प्राप्तः। सा प्रार्थितवती यत् सम्पूर्णदिल्लीवासिनां सुखं समृद्धिः च स्यात्। देवीमातुः आशीर्वादः सर्वेषां दिल्लीवासिनां स्थायित्वेन भवतु तथा दिल्ली विकाससमृद्धिपथेन निरन्तरं अग्रे

गच्छतु इति।

---------------

हिन्दुस्थान समाचार