जेएनयू छात्र संघनिर्वाचने एबीवीपीद्वारा रचितः इतिहासः
-संयुक्त सचिव पदे विशेषो जयः, 42संख्यकेषु 24 काउंसलर पदेषु नियंत्रणम् नवदिल्ली, 28 अप्रैलमासः (हि.स.)। अखिलभारतीयविद्यापरिषद् नाम संस्था जवाहरलालनहरूविश्वविद्यालये छात्रसंघचुनावेषु अभूतपूर्वं प्रदर्शनं कृत्वा केन्द्रीयपटलस्य संयुक्तसचिवपदे अद्भुत
जेएनयू छात्र संघ चुनाव में एबीवीपी की फाेटाे


-संयुक्त सचिव पदे विशेषो जयः, 42संख्यकेषु 24 काउंसलर पदेषु नियंत्रणम्

नवदिल्ली, 28 अप्रैलमासः (हि.स.)।

अखिलभारतीयविद्यापरिषद् नाम संस्था जवाहरलालनहरूविश्वविद्यालये छात्रसंघचुनावेषु अभूतपूर्वं प्रदर्शनं कृत्वा केन्द्रीयपटलस्य संयुक्तसचिवपदे अद्भुतं जयम् आप्तवती।

एबीवीपीसंस्थायाः प्रत्याशी वैभवमीणेन संयुक्तसचिवपदे विजयम् आप्त्वा वामपंथीसंस्थाभ्यः कठिनं चुनौती समर्पिता।

सहैव षोडशविद्यालयानाम् अन्यैः च संयुक्तकेन्द्रैः मिलित्वा चत्वारिंशदधिकेषु परामर्शकपदेषु चतुर्विंशतिस्थानेषु विजयम् आप्त्वा एबीवीपी वामपंथीप्रभुत्वम् अधःकृतवती।

एबीवीपी-जेएनयू-शाखाध्यक्षः राजेश्वरकान्तदुबे उक्तवान्— जेएनयू-विश्वविद्यालये एषः विजयः न केवलं अभाविपसंस्थायाः अथकपरिश्रमस्य राष्ट्रवादिप्रवृत्तेः च विश्वासस्य प्रमाणम् अस्ति, किन्तु तेषां सर्वेषां छात्राणां च विजयः यः शिक्षां राष्ट्रनिर्माणस्य आधारं मन्यते।

जेएनयू-मध्ये वर्षानां पर्यन्तं स्थापितस्य एकपक्षीयविचारधारायाः विरुद्धे एषा एकः लोकतान्त्रिकक्रान्तिः अस्ति। एबीवीपी छात्रहिताय राष्ट्रपुनर्निर्माणाय च सम्पूर्णेन संकल्पेन कार्यं करिष्यति।वैभवमीणः अपि उक्तवान्— संयुक्तसचिवरूपेण मम निर्वाचनं केवलं मम व्यक्तिगतसिद्धिः न, अपि तु तस्य जनजातीयचेतनायाः राष्ट्रवादिविचारस्य च विजयः या चिरकालपर्यन्तं दमनं प्राप्तवती।

एषः विजयः तेषां सर्वेषां छात्राणां आशानाम् प्रतीकः अस्ति ये स्वसंस्कृतिकस्वतन्त्रतया राष्ट्रनिर्माणभावनया च शिक्षायाः क्षेत्रे अग्रे गन्तुम् इच्छन्ति। अहम् संकल्पं कर॑मि यत् छात्रहितरक्षणाय, शैक्षिकश्रेष्ठतायाः संवर्धनाय, विश्वविद्यालयपरिसरे समरस-लोकतान्त्रिकमूल्यानाम् संवादस्य च समावेशितायाः च सशक्तिकरणाय पूर्णनिष्ठया पारदर्शितया च कार्यं करिष्यामि।

एषः विजयः तादृशस्य जेएनयू-निर्माणस्य प्रथमः चरणः अस्ति, यत्र प्रत्यक्षं छात्राय समानसुवसरः, सम्मानः च राष्ट्रप्रतिपत्त्या सह प्रदीयते।

वैभवमीणस्य परिचयः:

वैभवमीणः मूलतः करौली-राजस्थानराज्यतः आगतः, जनजातीयकृषकपरिवारात् जातः च।

सः स्वस्नातकशिक्षां राजस्थानविश्वविद्यालयात्, जयपुरे प्राप्तवान्। स्नातकोत्तरशिक्षां च काशीहिन्दूविश्वविद्यालयात् हिन्दी-साहित्ये सम्पादितवान्।

सः सम्प्रति जेएनयू-विश्वविद्यालये भाषा-साहित्य-संस्कृति-संस्थाने भारतीयभाषाकेंद्रे हिन्दी-साहित्यविषये शोधार्ति अस्ति।

वैभवः हिन्दी-साहित्ये जूनियर-रिसर्च-फेलोशिपं अपि प्राप्तवान्।

शैक्षिकसिद्धीषु अतिरिक्तम्, वैभवः राष्ट्रीयसेवायोजनस्य द्विवर्षीयकार्यक्रमं अपि सफलतया समाप्तवान्।

सः सम्प्रति जेएनयू-कावेरीछात्रावासस्य अध्यक्षः अपि अस्ति।

विभिन्नविद्यालयकेन्द्रेषु एबीवीपी-संस्थायाः प्रदर्शनविवरणम्। अन्ता राष्ट्रियअध्ययनविद्यालयः ५ मध्ये २ स्थानानि विजितानिसामाजिकविज्ञानविद्यालयः ५ मध्ये २ स्थानानि विजितानि जैवप्रविध्याविज्ञानविद्यालयः २ मध्ये १ स्थानं विजितम् आणविकचिकित्साविशिष्टकेन्द्रं १ मध्ये १ स्थानं विजितम् ।संगणकसंघटनविज्ञानविद्यालयः २ मध्ये १ स्थानं विजितम्।

संगणकप्रणालीविज्ञानविद्यालयः ३ मध्ये २ स्थानानि विजितानि। अभियन्त्रणविद्यालयः ४ मध्ये ४ स्थानानि विजितानि (सम्पूर्णविजयः) नैनोविज्ञानविशिष्टकेन्द्रम् १ मध्ये १ स्थानं विजितम्।

संस्कृत-भारतीयअध्ययनविद्यालयः ३ मध्ये ३ स्थानानि विजितानि (पूर्णविजयः)।

संयुक्तकेन्द्रम् २ मध्ये २ स्थानानि विजितानि।

पर्यावरणविज्ञानविद्यालयः २ मध्ये १ स्थानं विजितम्।

अटलबिहारीवाजपेयीप्रबन्धन-उद्यमिताविद्यालयः१ मध्ये १ स्थानं विजितम्।

भौतिकविज्ञानविद्यालयः ३ मध्ये २ स्थानानि विजितानि।

प्रावीण्यप्रमाणपत्रवर्गः १ मध्ये १ स्थानं विजितम् पञ्चविंशत्यधिकवर्षेभ्यः अनन्तरम् द्विस्थलेषु विजयः:

वामपंथीयप्रभावयुक्ते सामाजिकविज्ञानविद्यालये पञ्चविंशतिवर्षेभ्यः अनन्तरं द्विस्थानेषु विजयः ।अन्ता राष्ट्रीयअध्ययनविद्यालये अपि द्विस्थलेषु सफलता प्राप्तवती।

निर्विरोधविजयः विद्यालयेषु। जैवप्रविध्याविज्ञानविद्यालयस्य एकमात्रपदे सुरेन्द्रविष्णुः निर्विरोधनिर्वाचितः।

संस्कृत-भारतीयअध्ययनविद्यालयस्य त्रिषु पदेषु प्रवीणः पीयूषः, राजा बाबुः, प्राची जायसवालः निर्विरोधम्। आणविकचिकित्साविशिष्टकेन्द्रस्य एकपदे गोवर्धनसिंहः निर्विरोधनिर्वाचितः।

---

---------------

हिन्दुस्थान समाचार