मुख्यमन्त्री डॉ यादवः अद्य विभिन्नविभागानां समीक्षां करिष्यति, राजगढनगरे करिष्यति विकासकार्याणां भूमिपूजनं लोकार्पणम् च
भोपालम्, 28 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवासरे विभिन्नविभागानाम् समीक्षा करिष्यन्ति। मुख्यमन्त्री राजगढस्य भ्रमणमपि करिष्यति। यत्र गौपूजने, लाभवितरण-जल गंगासंवर्धनकार्यक्रमे भागं ग्रहीष्यति। तत्सह भूमिपूजनं, व
मुख्यमंत्री डाॅ यादव


भोपालम्, 28 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवासरे विभिन्नविभागानाम् समीक्षा करिष्यन्ति। मुख्यमन्त्री राजगढस्य भ्रमणमपि करिष्यति। यत्र गौपूजने, लाभवितरण-जल गंगासंवर्धनकार्यक्रमे भागं ग्रहीष्यति। तत्सह भूमिपूजनं, विविधविकासकार्यस्य उद्घाटनं च करिष्यति ।

निर्धारित कार्यक्रमानुसारं मुख्यमन्त्री डॉ. मोहन यादवः प्रातः ११ वादने सचिवालये भोपालमण्डलस्य विकासकार्यस्य समीक्षासभां करिष्यति, अपराह्णे १२.३० वादने सः वर्ष २०२५-२६ मध्ये निवेशप्रवर्धनसहितानाम् प्रस्तावितानाम् आयोजनानां रूपरेखां तिथिनिर्धारणं च विषये गोष्ठीं करिष्यति। समागमस्य समयः अपराह्णे २.०० वादनात् आरभ्य आरक्षितः भविष्यति। अपराह्णे ३.३० वादने राजगढं प्राप्स्यति। अत्र मुख्यमन्त्री डॉ यादवः राजगढस्य सारङ्गपुरस्य स्थानीयकार्यक्रमेषु भागं ग्रहीष्यति। श्रमदानम्, गौपूजनम् एवं लाभवितरणजलदूतसहितम् करिष्यति। जलगंगासंवर्धन कार्यक्रमस्य भूमिपूजनम् एवं विभिन्नविकासकार्याणाम् उदघाटनं करिष्यति। सायं ०६.३० वादने भोपाल प्रत्यागम। सायं ०७.०० तः सायं ०७.४५ पर्यन्तं राज्ये प्रस्तावितस्य महानगरक्षेत्रस्य निर्माणविषये सः निवासस्थाने सभां करिष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani