Thursday, 10 April, 2025
ट्रंपस्य टैरिफ प्रभावस्य अध्ययनं करिष्यति भारतम् - वित्‍त राज्य मंत्री
नवदिल्ली, 03 अप्रैलमासः (हि.स.)।संस्कृत अनुवादः केंद्रियवित्तराज्यमन्त्री पङ्कजचौधरी गुरुवासरे अमेरिकासंयुक्तराज्यस्य राष्ट्रपतिना डोनाल्डट्रंपेन भारतस्योपरि षड्विंशतिशतांशपरिमितं टैरिफ् इत्यस्य घोषणा विषये प्रतिक्रियाम् अर्पयन् अवदत् यत् भारतं पारस
पीएफआरडीए के कार्यक्रम को संबोधित करते हुए पंकज चौधरी


नवदिल्ली, 03 अप्रैलमासः (हि.स.)।संस्कृत अनुवादः

केंद्रियवित्तराज्यमन्त्री पङ्कजचौधरी गुरुवासरे अमेरिकासंयुक्तराज्यस्य राष्ट्रपतिना डोनाल्डट्रंपेन भारतस्योपरि षड्विंशतिशतांशपरिमितं टैरिफ् इत्यस्य घोषणा विषये प्रतिक्रियाम् अर्पयन् अवदत् यत् भारतं पारस्परिकटैरिफ्वृद्धेः तथा च देशे तस्य प्रभावस्य आकलनं करोति।

केंद्रियवित्तराज्यमन्त्रिणा नूतनदिल्लीस्थे भारतमण्डपे पेंशननिधिनियामक-विकासप्राधिकरणेन भारतीयप्रबन्धन-संस्थान- अहमदाबादस्य सहयोगेन आयोजिते ‘प्रथमं अन्ता राष्ट्रियं पेंशनगवेषणसम्मेलने उक्तं यत् भारतं पारस्परिकटैरिफ्प्रभावस्य समीक्षाम् आकलनं च करिष्यति।

पङ्कजचौधरी अवदत् यत् “ट्रंपस्य दृष्ट्या अमेरिका प्रथमं अस्ति, किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्ट्या भारतं प्रथमं अस्ति” इति। तेन प्रोक्तं यत् “वयं अमेरिका द्वारा आरोपितेषु पारस्परिकशुल्केषु तेषां प्रभावं परिगण्यन्तः स्मः” इति।

वित्तराज्यमन्त्रिणा उक्तं यत् अमेरिका द्वारा कृतस्य शुल्कवृद्धेः तथा च तस्य देशीयप्रभावस्य आकलनं सम्प्रति क्रियते।

उल्लेखनीयं यत् अमेरिका-संयुक्तराज्यस्य राष्ट्रपति डोनाल्डट्रंपः वैश्विकस्तरे अमेरिकीयवस्तुषु आरोपितानां उच्चशुल्कानां प्रतिकाराय ऐतिहासिकं निर्णयं कृत्वा समीपे षष्टिषु देशेषु प्रतिशुल्कारोपणस्य घोषणां कृतवान्।

---------------

हिन्दुस्थान समाचार