Enter your Email Address to subscribe to our newsletters
लखनऊ, 03 अप्रैलमासः (हि.स.)। अखिलभारतीय वैयक्तिक विधि मण्डलस्य सदस्यः धर्मगुरुश्च मौलाना खालिद रशीदः फिरंगी महली इति गुरुवासरे लखनऊ नगरे पत्रकारैः सह अवदत् यत् वक्फ संशोधन विधेयकस्य राज्यसभायां पारिते सति अखिलभारतीय वैयक्तिक विधि मंडलम् अग्रे न्यायालयं गन्तुं सिद्धम् अस्ति। वक्फ संशोधन विधेयकं न्यायालये आह्वानं करिष्यति।
मौलाना खालिद रशीदः फिरंगी महली अवदत् यत् देशस्य सर्वाणि राजनीतिक दलानि संयुक्तरूपेण वक्फ संशोधन विधेयकस्य विरोधं न अकुर्वन्, इदं स्पष्टं दृश्यते। वक्फ संशोधन विधेयकस्य पारिते सति उत्तरप्रदेशराज्यस्य अन्तः द्वौ प्रतिशतौ वक्फ सम्पत्तीं विहाय शेषाः सर्वाः वक्फ सम्पत्तयः संकटे सन्ति। अस्य कारणं अस्ति यत् अष्टनवत्यधिकं प्रतिशतं (९८%) वक्फ सम्पत्तयः राजस्व अभिलेखेषु न पञ्जीकृताः सन्ति।
---------------
हिन्दुस्थान समाचार