Enter your Email Address to subscribe to our newsletters
झुंझुनूः, 10 मईमासः (हि.स.)।झूंझुनूनगरस्य नवलगढ्कस्बस्थे जिला चिकित्सालये षष्ठसप्तमयोः मे दिनयोः जातानां त्रयाणां शिशूनां नाम “सिन्दूरः” इति स्थापितम्। एतेषां त्रयाणामपि प्रसवः शल्यचिकित्सया (ऑपरेशनद्वारा) जातः। सप्तम्याः मे तिथौ प्रभाते ‘सिन्दूर’ नामकस्य सैन्योपक्रमस्य चर्चा वर्तमाना आसीत्। तं दिनं देशस्य गौरवस्य प्रतीकं, ऐतिहासिकं च मन्यमानाः, तिस्रः प्रसूतयः तेषां च पारिवारिकजनाः शिशूनां नाम “सिन्दूरः” इति स्थापयामासुः।
विशेषता या अस्ति यत्, एषां त्रयाणां प्रसूतानां कुटुम्बेषु कश्चन कश्चन पूर्वमेव सैन्यसेवायाम् आसीत्। तस्मात् तैः अपि संकल्पः कृतः यत् ते स्वपुत्रान् राष्ट्रसेवार्थं प्रेरयिष्यन्ति, तेषां जन्मदिनं नाम च गौरवगाथारूपेण अवश्यं वक्ष्यन्ति च।
सीकरजिल्लस्थं बेरीग्रामं निवासी प्रभुदयालस्य पत्नी सीमा सप्तम्यां मे तिथौ प्रातः दशवादने नवलगढ्-चिकित्सालये पुत्रं जन्म दत्तवती। सीमायाः पूर्वं गर्वी नाम्नी पञ्चवर्षीया पुत्री अस्ति। अधुना पुत्रस्य नाम “सिन्दूरः” इत्येव स्थापितम्। सीमायाः पिताः रणवीरसिंहखींछडः निवाईप्रदेशस्य निवासी, यः भारतीयसेनायां हवलदार् पदे आसीत्, सः मृतः अस्ति। एवमेव कुमावासग्रामवासी रणवीरसिंहस्य पत्नी कञ्चना या त्रिवर्षपूर्वं विवाहिता, सप्तम्यां मे तिथौ मध्याह्ने द्वादशवादनात् एकचतुर्थांशे प्रथमप्रसवेन कन्यां प्राप्तवती। अस्याः नाम “सिन्दूरः” इति स्थापितम्। रणवीरसिंहस्य तातः भारतीयसेनायाः सेवा निवृत्तः अस्ति।
तथैव, षष्ठ्यां मे तिथौ मध्यान्हे एकवादने झाझडग्रामनिवासी सुनिलसैनीनामकस्य पत्न्या संजूनाम्न्या पुत्रः जातः। तस्यापि नाम “सिन्दूरः” इत्येव कृतम्। संजूस्य पूर्वं जीवा नाम्नी पञ्चवर्षीया कन्या अपि अस्ति। सुनिलसैनीस्य जीजा (श्वशुरभ्राता) अपि भारतीयसेनायाम् सेवां कुर्वन्ति।एते त्रितयम् अपि दम्पत्यः स्वपुत्राणां नाम “सिन्दूरः” इति स्थाप्य परमं हर्षं प्रकटयन्ति।
---------------
हिन्दुस्थान समाचार