Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 12 मईमासः (हि.स.)।जनपदस्य अहरौरा-पुलिसेन गो-तस्कराणां विरुद्धे सञ्चालिते अभियाने महती सिद्धिः प्राप्ता।सोमवारदिने अहरौराक्षेत्रस्थे खोरियाजङ्गलमोहले जातायां मुठभेडायां द्वौ शठौ गो-तस्करौ पुलिसगोलीप्रहारात् घायलौ जातौ, तौ च तत्क्षणमेव गृहीतौ।
गृहीतानां दुष्टानां मध्ये अशोककुमारराजभरः, रामगढ्, भभुआ (बिहार) इत्यस्य निवासी, च मनोजकुमारयादवः, मीरापुर, अहरौरा (मीरजापुर) इत्यस्य निवासी, सन्ति।संघर्षे अशोकस्य बामे पादे, मनोजस्य दक्षिणे पादे च गोलीप्रहारः जातः। पुलिसेण शीघ्रं प्रत्युत्तरं दत्त्वा अस्पतालं प्रति तौ प्रेषितौ। उभयोः स्थितिः सामान्य इति चिकित्सकैः सूचितम् पुलिसदलेन घटनास्थले २५ गोवंशाः, द्वौ अवैधतमञ्चकौ (.३१५ बोर), द्वौ निष्क्रियशरौ, चत्वारः जीवत्कार्तूसाः च प्राप्ताः।
एषा कार्या अहरौरा-पुलिसेन अपरपुलिस-अधीक्षकः (ऑपरेशन) श्री-ओ.पी.सिंह् तथा क्षेत्राधिकारी (ऑपरेशन) इत्येतयोः नेतृत्वे सम्पन्ना।पुलिसदलेन ज्ञापितं यत् गृहीतानां अपराधिनां विरुद्धं अहरौराथाने सुसम्बद्धाः धाराः अधारेण अभियोगः दत्तः अस्ति, च आगामि विधिकक्रियाः सम्पाद्य
मानाः सन्ति।
हिन्दुस्थान समाचार