Enter your Email Address to subscribe to our newsletters
जम्मूः, 12 मईमासः (हि.स.)।भगवद् बुद्धस्य जयन्तीभावेन श्रद्धया भक्त्या च सम्यक् समाचरितम्। सोमवासरे क्षेत्रस्य विविधभागेभ्यः अनेके श्रद्धालवः बुद्धविहार–बिश्नाह–नाम्नि पवित्रस्थले समागत्य भगवान् बुद्धं प्रति श्रद्धाञ्जलिं समर्प्य तस्य धर्मोपदेशान् स्मृत्वा भावपूर्वकं पूजनं कृतवन्तः। सर्वं पवित्रं परिसरं मन्त्रोच्चारणैः प्रार्थनाभिः च प्रतिध्वनितम् अभवत्।आर्.एल्. कैथेन भाषमाणेन भगवान् बुद्धस्य जीवने शिक्षायां च प्रकाशः कृतः।तेन निगदितं यत् –बौद्धपरम्परानुसारं वेसाकमासस्य पूर्णिमादिने, ६२४ ई.पू. तः भगवान् बुद्धः उत्पन्नः। ते २९ वर्षे सांसारिकं जीवनं परित्यज्य, षड्वर्षपर्यन्तं कठोरतपः कृत्वा, ३५ वर्षे ज्ञानं प्राप्तवन्तः। ततः परम् ८० वर्षपर्यन्तम्, कुशीनगरं प्रति गमनात् पूर्वं, धर्मस्य उपदेशं ४५ वर्षाणि पर्यन्तं कृतवन्तः।जम्मू-कश्मीर–बटवाल–कल्याण–संघस्य अध्यक्षः पृथीसिंह–चञ्जोत्रा इत्यनेन अपि भाषणं दत्तम्। तेन अधुनातनसंसारे बुद्धवाक्यानां प्रासङ्गिकता प्रतिपादिता।तेन उक्तं यत् –“सर्वे दुःखानि आसक्तेः कामनायाः च उत्पन्नानि।तस्य परिहाराय अष्टाङ्गिकमार्गः प्रदर्शितः –तत्र सम्मादृष्टिः, संकल्पः, वाक्, कर्म, आजीवः, प्रयासः, स्मृति, समाधिः च अन्तर्भवन्ति। अन्यः वक्ता अजायब्सिंह–मोटन् इत्यपि भाषमाणः अवदत् यत् –बुद्धस्य शिक्षाः केवलं आध्यात्मिक्यः न, किन्तु अतीव व्यवहारयोग्याः अपि सन्ति।मनःशान्तिं च चित्तप्रसादं प्राप्तुं ताः अस्मान् साहाय्यं कुर्वन्ति। एवं बुद्धस्य जयन्ती श्रद्धया भक्त्या च सम्यक् आचरिता, तस्य दिव्योपदेशाः जनमनसि पुनः संस्थापिताः च।
हिन्दुस्थान समाचार