Enter your Email Address to subscribe to our newsletters
कोरबा, 13 मईमासः (हि. स.)।
अस्य परीक्षायाः अन्तर्गतं छत्तीसगढ़राज्ये कोरबा-जिलस्य निर्मला उच्चमाध्यमिकविद्यालयस्य (आङ्ग्लमाध्यमे) छात्रिका काव्या शुक्ला या बायोलॉजी-समूहे 92% अङ्काः प्राप्य विद्यालये प्रथमस्थानं प्राप्तवती, सा अद्भुतं प्रदर्शनं कृतवती।काव्यायाः अस्य विजयेन न केवलं विद्यालये अपितु समग्रे जिलासु हर्षोल्लासः सञ्चारितः।
सा स्वीयायाः सफलतायाः श्रेयं पित्रोः शिक्षकेभ्यश्च दत्तवती। सा उक्तवती मम मातृपितरौ शिक्षकाश्च यः अटूट-विश्वासः, समर्थनं च मम हेतु महान् आधारः जातः। तेषां प्रेरणा मार्गदर्शनं च मम एतत्स्थानं प्राप्तुं साहाय्यं कृतवन्ति।
विद्यालयस्य प्रधानाचार्यः अपि काव्यायाः सफलतायाम् संतोषं, गौरवं च प्रकट्य एवं उक्तवान्—
“काव्या एका मेधाविनी छात्रा अस्ति। तस्याः कठोरपरिश्रमः समर्पणं च एतत्सिद्धिं प्राप्तुम् आधारभूतौ। अस्माकं विद्यालयं तया गर्वं अनुभवति। वयं तस्याः उज्ज्वल-भविष्यस्य कामनां कुर्मः। काव्यायाः मातृपितरौ अपि तस्याः विजयायां गर्वं, सन्तोषं च प्रकाश्य उक्तवन्तौ—
“अस्माकं पुत्र्याः अस्मिन् सफलतायां वयं गर्विताः। तस्याः परिश्रमः निष्ठा च एषां फलं दत्तवन्तौ। अस्याः भविष्यं उज्ज्वलं भवतु—इति वयं प्रार्थयामः।
शिक्षकानां योगदानम्
काव्यायाः शिक्षकाः अपि तस्याः सफलतायां महत्वपूर्णं योगदानं दत्तवन्तः। ते अवदन्—
“काव्या एका परिश्रमी प्रतिभाशालिनी च छात्रिका अस्ति। वयं सदैव ताम् उत्साहितवन्तः, तस्याः आवश्यकतानुसारं मार्गदर्शनं च दत्तवन्तः। तस्या सफलता अस्माकं अपि गर्वस्य विषयः अस्ति।
भविष्य-योजनाः- काव्या शुक्ला सा स्वीयाभिः भविष्य-योजनाभिः सूचयन्ती अवदत् यद्अहं चिकित्साक्षेत्रे स्वीयं जीवनं निर्मातुम् इच्छामि। आगामिपर्यन्तं अध्ययनाय सज्जा अस्मि, मम स्वप्नं पूर्णं कर्तुं कठोरं परिश्रमं करिष्यामि।
काव्यायाः अस्य सफलता-सन्देशेन एषा स्पष्टं जाता यत्कठोरपरिश्रमेण समर्पणेन च किमपि साध्यं भवति। स्मः विश्वस्म यत् सा भविष्ये अपि एवं सफलतां प्राप्स्यति, च पित्रे शिक्षकेभ्यः च यशः प्रापयिष्यति।
---------------
हिन्दुस्थान समाचार