Enter your Email Address to subscribe to our newsletters
रायपुरम्, 13 मईमासः (हि.स.)। भारतस्य केन्द्रीयः ग्राम्यविकास-कृषिकर्षककल्याणमन्त्री शिवराजसिंहचौहानः अद्य छत्तीसगढराज्यस्य अम्बिकापुरनगर्यां आयोज्यमाने मोर आवास मोर अधिकार नाम्ना कार्यक्रमे भागं ग्रहीष्यति। कार्यक्रमस्य आयोजनं अम्बिकापुरे स्थिते पी.जी.महाविद्यालयस्य क्रीडाङ्गणे भविष्यति। एतस्मिन् सन्धौ मुख्यातिथिरूपेण चौहानः प्रधानमन्त्री आवास योजना (ग्राम्य) तथा प्रधानमन्त्री जनमन योजनायाः लाभार्थिभ्यः सुखस्य कुन्जिकां दास्यति। ये च नवीनगृहनिर्माणम् आरब्धवन्तः तान् लाभार्थिनः भूमि-पूजनं कृत्वा गृहस्वीकृतिपत्रम् अपि प्रदास्यति।
केन्द्रीयमन्त्री शिवराजसिंहचौहानः राज्ये नवनिर्मितेषु ५१,००० प्रधानमन्त्रिणः आवासयोजनायाः लाभार्थिनां गृहप्रवेशं करिष्यति। तदैव उत्कृष्टं कार्यं कृतवन्त्यः स्वसहायतासमूहस्य दीद्योः – लक्षपतिदीद्यः – अपि सम्माननं प्राप्स्यन्ति। अस्य कार्यक्रमस्य अध्यक्षता मुख्यमन्त्रीविष्णुदेवसायः करिष्यति। अतिविशिष्टातिथयः इत्यत्र केन्द्रीयराज्यमन्त्रीः तोखनसाहू: (गृहनिर्माण-नगरेयविकासविभागः), उपमुख्यमन्त्रिणौ विजयशर्मा, अरुणसावः, विधानसभाध्यक्षः डॉ. रमणसिंहः च उपस्थिताः भविष्यन्ति।
एवमेव विशिष्टातिथयः इत्यत्र वित्तमन्त्री ओ.पी.चौधरी, कृषिमन्त्री रामविचारनेतारम्, परिवारस्वास्थ्यचिकित्साशिक्षामन्त्री श्यामबिहारीजायसवालः, महिला-बालविकासमन्त्री लक्ष्मीराजवाडे च अन्ये च गण्यमान्यजनप्रतिनिधयः कार्यक्रमे उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA