Enter your Email Address to subscribe to our newsletters
मुंबई, 13 मईमासः (हि.स.)।महाराष्ट्रराज्य-माध्यमिक-उच्चतरमाध्यमिक-शिक्षाबोर्डस्य दशमकक्षायाः परीक्षा-परिणामाः घोषिताः। अस्य वर्षस्य परीक्षा-परिणामे 94.10% छात्राः सफलतां प्राप्तवन्तः। प्रतिवर्षस्य समानरूपेण अस्मिन्समये अपि छात्रिकाः अग्रे अभवन्। सर्वेषु मण्डलिकबोर्डेषु नियमित-छात्रिकाणां उत्तीर्णप्रतिशतं 96.14, छात्राणां तु 92.31 प्रतिशतं जातम्। अर्थात् छात्रिकाः छात्रेभ्यः 3.83% अधिकं सफलाः जाता। छात्राः परीक्षा-परिणामं बोर्डस्य अधिकृत-जालपृष्ठे ऑनलाइन पश्यन्ति।
माध्यमिक-उच्चतरमाध्यमिक-शिक्षाबोर्डस्य सचिवः देवीदासकुलाल-महोदयः मङ्गलवासरे दशमकक्षायाः परीक्षा-परिणामस्य घोषणां कृतवान्। तेन उक्तं यत् राज्यस्य समग्रं परिणामं 94.10% प्राप्तम्।
अस्मिन्समे राज्यस्य कोंकण-मण्डलम् उत्तमस्थानम् प्राप्तम्, नागपुर-मण्डलम् अधमस्थानम्। छात्रिकाणां सफलता पुनरपि स्पष्टा जाता—96.14% छात्रिकाः सफलाः, छात्राणां तु 92.21%।
राज्यस्य नवसु मण्डलिकबोर्डेषु — पुणे, नागपुर, छत्रपतीसम्भाजीनगर, मुम्बई, कोल्हापुर, अमरावती, नासिक, लातूर, कोंकण — एतेषु 15,58,020 नियमित-विद्यार्थिनः परीक्षा-हेतोः पञ्जीकृताः। तेषु 15,46,579 जनाः परीक्षा-अनुष्ठानं कृतवन्तः, तेषु 14,55,433 जनाः सफलाः जाता। तेन कुल-उत्तीर्णप्रतिशतं 94.10% अभवत्।
मण्डलानुसार परिणामाः- पुणे — 94.81%, नागपुरं — 90.78%, सम्भाजीनगरं — 92.82%, मुम्बई — 95.84%, कोल्हापुरं — 96.78%, अमरावती — 92.95%
नासिकम् — 93.04%, लातूरः — 92.77%, कोंकणः — 99.82% (सर्वाधिकम्) निज-छात्राणां मध्ये 28,512 जनाः पञ्जीकृताः, 28,020 परीक्षा-अनुष्ठिता, 22,518 सफलाः — 80.36% उत्तीर्णप्रतिशतम्।पुनःपरीक्षार्थिनः — 24,376 पञ्जीकृताः, 23,954 परीक्षा-अनुष्ठिता, 9,448 सफलाः — 39.44% उत्तीर्णप्रतिशतम्। समग्रे राज्ये — नियमित, निज, पुनःपरीक्षार्थिनः च 16,10,108 पञ्जीकृताः, 15,98,553 परीक्षा-उपविष्टाः, 14,87,399 सफलाः — 93.04%। दिव्याङ्ग-विद्यार्थिनः — 9,673 पञ्जीकृताः, 9,585 परीक्षा-अनुष्ठिता, 8,844 सफलाः — 92.27%। कोंकणमण्डले सर्वाधिकं (99.82%), नागपुरे न्यूनतमं (90.78%) परिणामम्।फेब्रुवरि-मार्च 2025 मध्ये आयोजिते दशमकक्षायाः परीक्षायां 62 विषयानाम् परीक्षा अभवत्, तेषु 24 विषयेषु 100% परिणामम्।एकादशकक्षायाः प्रवेशप्रक्रिया अपि पूर्णतः ऑनलाइन भविष्यति। छात्राणां पालकानां च असुविधां निषेधितुं महाराष्ट्रबोर्डेन एषः निर्णयः कृतः। प्रेस-विज्ञप्त्या अस्य विषये पूर्वमेव सूचितम्।
---------------
हिन्दुस्थान समाचार