Enter your Email Address to subscribe to our newsletters
कोडरमा, 13 मईमासः (हि.स.)।जिलस्य जयनगर-प्रखण्डे स्थितस्य सतडीहा-ग्रामवासिनः बासुदेव-यादवः (वयः ६३) स्वभ्रातृपुत्रसहितं विवाह-समारोहम् अधिकृत्य सोमवासरे रात्रौ प्रत्यागच्छन् आसन्।
हठात् एकः हस्ती पृष्ठतः आगत्य रात्रेः एकवादने सरमाटाण्ड-रेलस्थानकस्य समीपे स्थिते लालु-चौक् इत्यस्मिन् स्थले बासुदेवं पदाभ्यां द्रवितवान्।तस्मात् तस्य तत्क्षणमेव मृत्यु: अभवत्। एवम् आपत्तिवृत्तान्तस्य सूचना प्राप्ते ग्रामीणजनाः, मुख्यप्रतिनिधिः सुरेशप्रसाद-यादवः च थाना इत्यस्मै दूरवाणीं कृतवन्तः।
थानाप्रभारी बबलूकुमारसिंहः पुलिसदलेन सह घटनास्थलम् आगत्य ग्रामीणान् सम्यक् प्रकारेण आश्वास्य शवम् थाने आनयत्।अनन्तरं सदर-चिकित्सालये शवस्य विच्छेदनं कृत्वा तस्य पार्थिवदेहं स्वजनानां कृते समर्पितम्। मुख्यप्रतिनिधिः सुरेशप्रसाद-यादवः, उपमुख्यप्रतिनिधिः उमेश-यादवः च वनविभाग-अधिकारिभ्यः निवारणधनराशिं दातुं प्रार्थितवन्तौ। शवस्य दाहसंस्कारार्थं रेंजर-पदस्थः अधिकारी २५ सहस्र-रूप्यकाणां चेक् समर्पितवान्।
एतेन हस्तीनां भीषणतया सम्प्रति ग्रामे भयस्य वातावरणं व्याप्तं दृश्यते।
---------------
हिन्दुस्थान समाचार