पञ्चदशशतरूप्यकाणाम् उत्कोचं गृह्णन् एएसआई गृहीतः
जयपुरम्, 15 मईमासः (हि.स.)।भ्रष्टाचारनिरोधकब्यूरो (ए.सी.बी.) करौली-टीमे गुरुवासरे कार्‍यवाहीं कृत्वा टोडाभीमकस्बायाः पुलिसचौक्याः प्रभारीं करौलीजनपदस्य टोडाभीमपुलिसथानस्य सहायकपुलिसोपनिरिक्षकं (ए.एस्.आई.) सीतारामनामानं पुरुषं पञ्चदशशतानां रूप्यकाणां
स्टाम्प वेंडर व पटवारी पांच हजार रुपये की रिश्वत लेते गिरफ्तार


जयपुरम्, 15 मईमासः (हि.स.)।भ्रष्टाचारनिरोधकब्यूरो (ए.सी.बी.) करौली-टीमे गुरुवासरे कार्‍यवाहीं कृत्वा टोडाभीमकस्बायाः पुलिसचौक्याः प्रभारीं करौलीजनपदस्य टोडाभीमपुलिसथानस्य सहायकपुलिसोपनिरिक्षकं (ए.एस्.आई.) सीतारामनामानं पुरुषं पञ्चदशशतानां रूप्यकाणां घूषां गृह्णन्तं गृहीतम्।

अभियुक्तः ए.एस्.आई. सीताराम परिवादिनं सहायतुं, अपराधिनः गृहीत्वा तेषां चालानं कर्तुं च “फाइल् चार्ज्” इत्यस्मिन् नाम्ने घूषां याचमानः आसीत्।

भ्रष्टाचारनिरोधकब्यूरोस्य पुलिसमहानिदेशकः डॉ. रविप्रकाशमेहरडा इत्यनेन सूचितं यत् करौली-ए.सी.बी.-चौक्यै परिवादिना शिकायतिः समर्पिता यत् तेन दत्ते मारपीट-संबन्धि-मामले परिवादिनं सहायतुं च अपराधिनः गृहीत्वा चालानं कर्तुं च ए.एस्.आई. सीतारामः फाइल् चार्ज् इति कारणेन १५०० रूप्यकाणि याचते स्म।

एतस्मिन् प्रकरणे ए.सी.बी.-पुलिस-निरीक्षकः करौली-जगदीश-भारद्वाजेन जालबन्धनप्रकारेण कार्‍यवाही कृत्वा ए.एस्.आई. सीतारामः १५०० रूप्यकाणां घूषाग्रहणसमये गृहीतः।

---------------

हिन्दुस्थान समाचार