Enter your Email Address to subscribe to our newsletters
अयोध्या, 15 मईमासः (हि.स.)।रामनगरी अयोध्यायां अपि गुरुवासरे प्रातःकाले तिरङ्गायात्रा आयोजिताभवत्। अस्याम् यात्रायां नगरनिगम-महापौरः गिरीशपतिः त्रिपाठिः, पूर्वसांसदः लल्लूसिंहः, अयोध्यायाः विधायकः वेदप्रकाशगुप्तः, रुदौलिविधानसभायाः विधायकः रामचन्द्रयादवः, समाजवादीपक्षस्य भिन्नमतवान् विधायकः अभयसिंहः, भारतीयजनतापक्षस्य महिला मोर्चायाः मातृशक्तयः कार्यकर्तारश्च सहभागी अभवन्।
यात्रा सिविल लाइन इत्यस्मात् गांधीपार्कतः आरब्धा, चतुष्पथ-हुतात्मस्मारकस्थले समापिता च।
पाकिस्तानदेशे भारतस्य ‘ऑपरेशन सिंदूर’ इत्यस्य सफलतायाः अनन्तरं सर्वत्र राष्ट्रे तिरङ्गायात्राः आयोज्यन्ते। अत्र रामनगरे अपि भारतीयजनतापक्षस्य कार्यकर्तृभिः तिरङ्गायात्रा आयोजिता। तस्यां यात्रायां “भारतम् मातरं जयतु” इत्यादयः घोषा: समुच्चरिताः।
हिन्दुस्थान समाचार