Enter your Email Address to subscribe to our newsletters
काठमांडूः, 15 मईमासः (हि.स.)।नेपालदेशेन चीनस्य बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य कार्यान्वयनसम्बद्धं सहमतिं समाप्त्य हस्ताक्षरितम् अनन्तरं तस्य शीघ्रं कार्यान्वयनं भवेत् इति चीनदेशात् भारः आरब्धः। नेपालदेशं प्रति आगतः चीनसंसदायाः उपाध्यक्षः श्री शियाओ जी इत्यनेन नेपालप्रधानमन्त्रिणा केपी शर्मा ओलिना सह मेलनं कृत्वा BRI परियोजनां शीघ्रं प्रारभ्यताम् इति निवेदनं कृतम्।
चीनस्य राष्ट्रियजनमण्डलीय- स्थायीसमितेः उपाध्यक्षस्य शियाओ जी इत्यस्य नेतृत्वे आगतः चीनीयप्रतिनिधिमण्डलः गुरुवासरे प्रधानमन्त्री केपी शर्मा ओली इत्येन सह शिष्टाचारभेटं कृतवान्। तस्मिन् समये उभयदेशयोः मध्ये सम्पन्नं बीआर आई सहमतिः च विभिन्नपरियोजनाः च विषये चर्चाः जाताः। प्रधानमन्त्रीस्य प्रमुखः सलाहकारः विष्णुः रिमाल् इत्यनेन उक्तं यत् चीनीयप्रतिनिधिमण्डलेन सह BRI परियोजनायाः आरम्भे सम्बन्धिनी वार्ता जाताः। नेपालदेशात् अपि परियोजनाः शीघ्रं आरभ्यन्ताम् इत्यस्मिन्नेव संकल्पः प्रदर्शितः।
प्रधानमन्त्रिणः निवासे आयोजिते उपवेशने चीनीयप्रतिनिधिमण्डलेन १६ मे तमे दिनाङ्के काठमाण्डूनगरे आयोज्ये “सागरमाथा संवादे” सफलतां प्रति चीनप्रधानमन्त्रिणा ली कियांग इत्यनेन शुभकामना अपि प्रदत्ता। संसदायाः उपाध्यक्षः शियाओ जी इत्यनेन उक्तं यत् चीनदेशः नेपालचीनयोः दीर्घकालपर्यन्तं विद्यमानं सौहार्दपूर्णं सम्बन्धं अधिकं दृढं कर्तुं सिद्धः अस्ति। सः गतदिसेम्बरमासे सम्पन्नां प्रधानमन्त्री ओली इत्यस्य चीनभ्रमणं अपि स्मृत्वा नेपालदेशस्य विकासाय समृद्धये च चीनदेशस्य सहकार्यं दर्शितवान्।
प्रधानमन्त्रिणा ओलिना उभययोः राष्ट्रयोः दीर्घकालपर्यन्तं निर्विघ्नं सौहार्दं च सम्बन्धं विवृण्वन् चीनदेशस्य त्वरितं प्रौद्योगिकविकासं वैश्विकप्रभावं च प्रशंसितः। सः “एक-चीन-नीतिः” इत्यस्मिन्नेव नेपालदेशस्य दृढसंकल्पं पुनरुक्तवान् तथा च BRI समेते हस्ताक्षरितानि अन्यानि च सहयोगसमझौतानि कार्यान्वयितुं सर्वेषां पक्षाणां सक्रियप्रयत्नानां आवश्यकता अपि आवेदितवान्।
अस्मिन्नेव उपवेशने प्रधानमन्त्रिणः प्रमुखः परामर्शकः विष्णुः रिमाल्, नेपालदेशे चीनीयदूतः चेन सोंग्, चीनदेशे नेपालस्य राजदूतः डॉ. कृष्णप्रसाद ओली, विदेशमन्त्रालयस्य वरिष्ठाधिकारीणः च सन्निहिताः
आसन्।
---------------
हिन्दुस्थान समाचार