Enter your Email Address to subscribe to our newsletters
वियना (आस्ट्रिया), 15 मईमासः (हि.स.)।भारतेन सह सैन्यसंघर्षे पाकिस्तानदेशस्य कस्यापि परमाणुसुविधायाः कश्चन अपि विकिरण-स्रावः न जातः। भारतपाकिस्तानयोः सैन्यसंघर्षे पाकिस्तानस्य पंजाबराज्ये स्थिते किरानापर्वतेषु विकिरणस्य रिसावः अभवत् इत्येषः यः आरोपः तं संयुक्तराष्ट्राणां परमाणुनिरीक्षणसंस्था दृढतया निरस्तवती।
पाकिस्तानस्य एषः प्रमादपूर्णः प्रपञ्चः समस्ते विश्वे चर्चाविषयः अभवत्। जगति प्रमुखेषु सूचना-संचार-माध्यमेषु अस्य चर्चनं प्रवृत्तम्। ब्रिटेनदेशस्य प्रमुखः समाचारपत्रः “द् इंडिपेन्डेण्ट्” इत्यस्य वार्तायाः अनुसारं, अन्ताराष्ट्रियः परमाणुशक्ति-उर्जासंस्थया स्पष्टं कथितं यत् गतसप्ताहे भारतसहितं सैन्यविरोधस्य अनन्तरं पाकिस्तानदेशे कस्यापि परमाणुसुविधायाः समीपे विकिरणस्य कश्चन अपि रिसावः न जातः। सप्ताहान्ते युद्धविरामस्य घोषणां कृत्वा केचन अणु-सुविधासमीपे भारतात् आक्रमणं जातम् इति अपवादाः प्रवर्तिताः आसन्। किन्तु तादृशाः आरोपाः नूतनदिल्ली-नगरेण तत्क्षणमेव पूर्णतया प्रतिषिद्धाः आसन्।
---------------
हिन्दुस्थान समाचार