खेलो इंडिया यूथ गेम्स 2025: बिहारस्य ऐतिहासिक प्रदर्शनम् उत्कृष्टसहभागितया च नूतनोऽध्यायः
-620% पदक वृद्धिः, 14तमं स्थानम् अद्वितीय आयोजन क्षमता देशस्य ध्यानम् आकृषत् पटना, 15 मईमासः (हि.स.)। खेलक्षेत्रे बिहारराज्येन नवं अध्यायं लिखितम्।क्रीडानां इतिहासे अद्य बिहारराज्येन नवमध्यायः रचितः। खेलो इंडिया यूथ गेम्स 2025 इत्यस्य पटनानगरे स्थ
खेलो इंडिया यूथ गेम्स 2025: बिहार का ऐतिहासिक प्रदर्शन और शानदार मेजबानी ने रचा नया अध्याय


-620% पदक वृद्धिः, 14तमं स्थानम् अद्वितीय आयोजन क्षमता देशस्य ध्यानम् आकृषत्

पटना, 15 मईमासः (हि.स.)।

खेलक्षेत्रे बिहारराज्येन नवं अध्यायं लिखितम्।क्रीडानां इतिहासे अद्य बिहारराज्येन नवमध्यायः रचितः। खेलो इंडिया यूथ गेम्स 2025 इत्यस्य पटनानगरे स्थिते पाटलिपुत्र क्रीड़ासंकुले समापनोत्सवः सुसज्जितरीत्या सम्पन्नः, यत्र न केवलं बिहारराज्यस्य क्रीड़ाप्रतिभा, अपितु आतिथ्येऽपि तेन सर्वदेशस्य ध्यानं आकर्षितम्।

चतुर्थतः पञ्चदशमयाम् मईमासे पर्यन्तं सम्पन्ने अस्मिन् महोत्सवे देशस्य सर्वतोऽधिकं दशसहस्त्रं खिलाड़ीनाम् च तेषां सहकाऱिणां च भागग्रहणं जातम्। समापनसमारोहे बिहारराज्यस्य उपमुख्यमन्त्री श्री सम्राट चौधरी, भारतस्य युवा क्रीड़ा राज्यमन्त्री श्री रक्षा निखिल खडसे, मुख्यसचिवः श्री अमृतलाल मीणा च खिलाड़ियों का उत्साहवर्धनं कृत्वा बिहारस्य नवक्रीड़ापरिचयं प्रशशंसन्।

इतिहाससर्जनं च बिहारराज्येन कृतम्। एतस्मिन् वर्षे बिहारराज्येन 7 स्वर्णपदकानि, 11 रजतपदकानि, 18 कांस्यपदकानि च प्राप्तानि। एवं कुलं 36 पदकानि जयित्वा राज्येन 620% इत्यस्य ऐतिहासिकवृद्धिः प्राप्ता, या 2023 तमे वर्षे प्राप्तसिद्धेः सन्दर्भे वर्तते। झारखण्डराज्यं पराजित्य बिहारराज्येन चतुर्दशः स्थानं प्राप्तम्, यः राज्यस्य वर्धमानक्रीड़ासामर्थ्यस्य स्पष्टप्रमाणमस्ति।

ग्रामेभ्यः उत्पन्नाः आशायाः कण्ठासः। एतेषु पदकेषु पृष्ठतः अनेके प्रेरणादायिन्यः कथाः सन्ति—यथा ये बालकाः दुस्तरं जीवनं तथा संसाधनस्य न्यूनतां च अनुभूय अपि न पराजिताः। केचन क्रीड़का: येषां केवलं मृत्तिकाक्षेत्राणि साधनानि च अल्पानि सन्ति, ते अपि राष्ट्रस्तरे बिहारस्य कीर्तिं वृद्धिं च कृतवन्तः।

दीर्घकालिकप्रयत्नानां फलम्।राज्यक्रीड़ाप्राधिकरणस्य महानिर्देशकः श्री रविन्द्रण शंकरण इत्यनेन उक्तं— “एषा सफलता न केवलं एकस्मिन्न दिने जाता। एषा राज्यसत्तायाः दीर्घकालिकस्य योजना-निर्माणस्य, नीति-निर्माणस्य, क्रीड़कानां प्रदत्तानां सुविधानां च फलम् अस्ति।

मुख्यमन्त्री श्री नीतीशकुमारस्य नीत्या परिवर्तिता स्थितिः।एतस्य ऐतिहासिकस्य विजयस्य श्रेयः राज्यसत्तायाः क्रीड़ाप्रति समर्पणं दृष्टव्यं। मुख्यमन्त्री श्री नीतीश कुमारस्य दूरदर्शिता, योजनाशक्ति च कारणेन राज्यक्रीड़ाप्राधिकरणस्य स्थापनं कृतम्, क्रीड़ाविभागं च सक्रीयः कृतः। प्रशिक्षणम्, संसाधनं, स्पर्धासु सततभागग्रहणं च खिलाड़ियों ऊर्जां प्रदत्तवन्तः।

आतिथ्येऽपि बिहारस्य श्रेयसः स्थानम्। देशस्य अष्टाविंशतिः राज्येभ्यः, अष्टसु केन्द्रशासितप्रदेशेभ्यः च आगतानां क्रीड़कानां, अधिकाऱिणां च कृते बिहारराज्येन उत्तमा आतिथ्यव्यवस्था, भोजनं, सुरक्षा, आवागमनं च सम्यक् आयोज्यते स्म। समापनसमारोहे बिहारस्य सांस्कृतिकचित्रम्, लोककलाः, पारम्परिकनृत्यानि च सर्वान् दर्शकान् क्रीड़कांश्च आह्लादयन्।

क्रीड़ाचित्रे बिहारस्य दृढं स्थानम्।खेलो इंडिया यूथ गेम्स 2025 इत्यस्य सफलसंयोजनेन च उत्कृष्ठप्रदर्शनेन च एषः संदेशः दत्तः यत् बिहारराज्यं न केवलं शिक्षा-संस्कृतेः क्षेत्रे, अपितु क्रीड़ाक्षेत्रेऽपि राष्ट्रस्य अग्रगण्यं सञ्जातुं समर्थमस्ति।

एतस्मात् सफलसंयोजनात् बिहारराज्येन एषा दृष्टिः प्रदर्शिता यत् यत्र नीति, संकल्पः, समर्पणं च अस्ति, तत्र सीमाः केवलं शब्दरूपेण वर्तन्ते। बिहारराज्येन पुनः प्रमाणीकृतं यत् सः केवलं अतीतस्य गौरवः न, अपि तु भविष्यस्य प्रेरणापीठमस्ति।

---------------

हिन्दुस्थान समाचार