Enter your Email Address to subscribe to our newsletters
कालेश्वरम्, 15 मईमासः (हि.स.)।
महाराष्ट्र-तेलङ्गाणाराज्ययोः सीम्नि स्थिते प्रसिद्धे तीर्थक्षेत्रे कालेश्वरे अद्य सरस्वती-पुष्कर-महोत्सवः आरब्धः। अस्य महोत्सवस्य सफलाय आयोजनाय राज्यसर्वकारेण व्यापकानि व्यवस्थायाः कृतााः। एषः महोत्सवः छब्बिंशतितम्यां मईमासस्य दिनाङ्कपर्यन्तम् अनुवर्तिष्यते।
कालेश्वरे श्रद्धालूनां कुम्भः समारब्धः। गुरुवासरे तेलङ्गाणाराज्यस्य मुख्यमन्त्री रेवंथ् रेड्डी स्वमन्त्रिपरिषद्या सह तत्र आगत्य स्नानं कृत्वा कालेश्वरस्य दर्शनं कृतवान्।
कालेश्वरं नाम प्रसिद्धं तीर्थस्थानम् अस्ति यः भूपलपल्लि-जिलायां महाराष्ट्र-तेलङ्गाणयोः सीम्नि स्थितः अस्ति। अस्मिन् स्थले गोदावरी, प्राणहिता, गुप्तसरस्वती नाम्नी त्रयो नद्यः संमीलन्ति। प्रतिवर्षं लाखशः श्रद्धालवः अत्र आगत्य स्नानं कुर्वन्ति। अत्र प्रत्येकद्वादशवर्षे सरस्वत्याः तटे पुष्करमहोत्सवः आयोज्यते।
भारतीयज्योतिषशास्त्रानुसारं एता पवित्रनद्यः बृहस्पतेः राश्यतिक्रमेण पुष्करकालं लभन्ते। अस्मिन्नेव काले पवित्रनद्यां स्नानं, दानं, अभिषेकः, गोदानं, प्रवचनानि, भजन-कीर्तनम्, महाआरती इत्यादीनि धार्मिक-सांस्कृतिककार्यक्रमाः अपि आयोज्यन्ते।
मुख्यमन्त्रिणा रेवंथ रेड्डिना तेन सह मन्त्रीगणाः पोन्नम् प्रभाकरः, श्रीधरबाबुः, पोंगुलेटिः श्रीनिवास रेड्डी च कालेश्वरं प्राप्तवन्तः। तत्र तेन सरस्वत्याः १७ फूट्-उन्नतप्रतिमायाः उद्घाटनं कृतम्। पश्चात् सर्वे मिलित्वा सरस्वतीनद्यां पुष्करस्नानं कृतवन्तः। ततोऽनन्तरं कालेश्वर-मुक्तेश्वरयोः दर्शनं च कृतम्। तेन सरस्वत्याः आरती कार्यक्रमे अपि सहभागिता कृतवती।
एतः पूर्वं अद्य प्रातःकाले ५:४४ वादनम् आरभ्य आध्यात्मिकगुरुः माधवानन्दसरस्वती महोदयेन औपचारिकरूपेण पुष्करस्नानस्य आरम्भः कृतः।
सर्वकारस्य व्यवस्थाः – सुरक्षा-सुविधायाः हेतुना । तेलङ्गाणाराज्यस्य गठनात् परम् अयं प्रथमः अवसरः यत्र कालेश्वरे सरस्वतीपुष्करमहोत्सवः आयोज्यते। अस्य महोत्सवस्य आयोजनाय राज्यसर्वकारेण ५ कोटि (३५ करोड़) रूप्यकाणि व्ययाय नियोजितानि।
राज्ये धार्मिक-समाजिक-सुरक्षासम्बन्धीनां व्यवस्थानां पूर्णं समायोजनं कृतम्। यातायात्-नियन्त्रणम्, अस्थायीनिवासः, अन्नशरणम्, स्वच्छताव्यवस्था, चिकित्साकेन्द्राणि, पेयजलं, शौचालयाः, सीसीटीवी-निग्रणम् इत्यादीनि समुचितव्यवस्थाः कृताः।
भूपलपल्लि-जिलायाः पुलिस् अधीक्षकः नीलेश खरे इत्यस्य नेतृत्वे विशालः सुरक्षा-बन्धोऽपि आयोजितः। अस्मिन् महोत्सवे तेलङ्गाणा, महाराष्ट्रः, आन्ध्रप्रदेशः, कर्नाटकम्, तमिळ्नाडु इत्यादिभ्यः प्रदेशेभ्यः लक्षाधिकाः श्रद्धालवः आगमनं करिष्यन्ति इति अपेक्षा अस्ति।धर्मस्वविभागेन तु जलघाटाः, मीठपानीयव्यवस्था, मार्गमरामतिः, पार्किङ्, स्वच्छता, एवं ग्रीष्मतपस्य निवारणार्थं छायामण्डपाः, तम्बूशिबिराणि च आयोज्यन्ते।
---------------
हिन्दुस्थान समाचार