ग्वालियरम् - विश्व-संग्रहालय-दिवसस्य” अवसरः – “अतीतात् भविष्यं प्रति सेतु: अस्माकं संग्रहालयाः” इत्यस्मिन् विषये व्याख्यानमाला आयोजितम्
ग्वालियरम्, 18 मईमासः (हि.स.)। विश्व-संग्रहालय-दिवसस्य अवसरसंदर्भे राज्य-संरक्षित-स्मारके मोतीमहले “अतीतात् भविष्यं प्रति सेतु: अस्माकं संग्रहालयाः” इत्यस्मिन् विषये रविवासरे व्याख्यानमाला आयोजिता। अस्य आयोजनस्य संयोजनं पुरातत्त्व-संग्रहालय-अभिलेखालय
ग्वालियरः विश्व संग्रहालय दिवस पर “अतीत से भविष्य के सेतु – हमारे संग्रहालय” विषय पर व्याख्यानमाला आयोजित


ग्वालियरम्, 18 मईमासः (हि.स.)। विश्व-संग्रहालय-दिवसस्य अवसरसंदर्भे राज्य-संरक्षित-स्मारके मोतीमहले “अतीतात् भविष्यं प्रति सेतु: अस्माकं संग्रहालयाः” इत्यस्मिन् विषये रविवासरे व्याख्यानमाला आयोजिता। अस्य आयोजनस्य संयोजनं पुरातत्त्व-संग्रहालय-अभिलेखालय-निदेशालयेन कृतम्। व्याख्यानमालायाः मुख्य-अतिथिरूपेण राजा-मानसिंह-तोमर-संगीत-कला-विश्वविद्यालयस्य कुलगुरु प्रो. स्मिता सहस्त्रबुद्धे उपस्थिता आसन्।

अस्मिन् अवसरि विद्वद्भिः छात्रछात्राणां जनसामान्यस्य च कृते संग्रहालयानां महत्त्वं, पुरातत्त्व-धरोहराणां संरक्षणं, तेषां यथायोग्यं उपयोगं, प्राचीनपरंपराणां च संरक्षणं विषये प्रेरणा दत्ता।

अस्मिन् कार्यक्रमे पुरातत्त्वविदः डॉ. मनोज अवस्थी, डॉ. योगेश यादव, डॉ. जितेन्द्र शर्मा, डॉ. चन्द्रशेखर बरूआ च अन्ये च इतिहासविदः विद्वांसश्च सन्निहिताः आसन्। अत्र प्रायः २०० छात्राः छात्राश्च भागं गृहीतवन्तः। कार्यक्रमस्य रूपरेखां उपनिदेशकः पी.सी. महोबिया प्रकाशयन् अतिथीनां स्वागतं च कृतवान्।

“संग्रहालयभ्रमणम्” अपि आयोजितम्।

व्याख्यानमालानन्तरं पुरातत्त्वविद्भिः, विद्वद्भिः, अतिथिभिः छात्रछात्राभिश्च सह “गूजरी-महल” इत्यस्मिन् केन्द्रीय-पुरातत्त्व-संग्रहालये “संग्रहालयभ्रमणम्” अपि आयोजितम्। उपनिदेशकः पी.सी. महोबिया, सपन साहु च संग्रहालयस्य दीर्घाः भ्रमयित्वा, पुरावशेषानां विषये विस्तृतं ज्ञानं प्रदत्तवन्तौ।

हिन्दुस्थान समाचार