तिरंगायात्रा : भारत मातुः सेवां सुरक्षां च प्रति अस्मद् दृढ़ संकल्पस्य प्रतीकः
पहलगाम-आतङ्कवादी-आक्रमणस्य एकमासस्य पूर्णतायाम् राष्ट्रसेविकासमित्या राष्ट्रीयस्वयंसेवकसङ्घेन च शौर्यसम्मानयात्रा आयोजिता
पहलगाम आतंकी हमले के एक माह पूरे होने पर राष्ट्र सेविका समिति और राष्ट्रीय स्वयं सेवक संघ ने निकाली शौर्य सम्मान यात्रा


मुरादाबादम्, 24 मईमासः (हि.स.)।

शनिवासरे, यदा पहलगामे जातस्य आतङ्कवादी-आक्रमणस्य एको मासः समाप्तः अभवत्, तदा राष्ट्रसेविकासमित्या शौर्यसम्मानयात्रा आयोजिता। अस्मिन् अवसरे वक्तारः उक्तवन्तः यत् अस्माकं तिरङ्गः तान् बलिदानिनः स्मारयति ये मातृभूमेः रक्षणाय स्वं सर्वस्वं समर्पितवन्तः। तिरङ्गयात्रा केवलं यात्रा नास्ति, अपि तु एषा भारतमातुः सेवा-सुरक्षयोः विषये अस्माकं दृढसङ्कल्पस्य प्रतीकः अस्ति।

महिला-समन्वय-मुरादाबाद-विभागस्य विचार-संयोजिका निवेदिता मित्तल नाम्नी उक्तवती यत् अस्याः यात्रायाः उद्देश्यः अस्ति—‘ऑपरेशन सिन्दूर’ नामकस्य अभियानस्य जनसमर्थनं प्राप्तुम्। एषः अभियानः आतङ्कवादस्य विरोधे राष्ट्रस्य निर्णायकयुद्धस्य प्रतीकः अस्ति। अद्य अस्माकं सर्वेषां भारतीयानां कर्तव्यं यत् वयं आतङ्कवादस्य विरोधे एकतां प्रदर्शयेम, राष्ट्रस्य अखण्डता-स्वाधीनता-शान्तिं च सुनिश्चितयेम।

सा पुनरपि उक्तवती यद्अस्मिन यात्रा-द्वारा वयं एषं सन्देशं दातुम् इच्छामः यत् राष्ट्रं सर्वोपरि अस्ति। अस्माभिः सर्वैः एकत्रितैः भवितव्यम्। तिरङ्गस्य छायायाम् वयं संकल्पं कुर्मः यत् वयं आतङ्कवादस्य दृढं विरोधं करिष्यामः, च वीरसैनिकानां बलिदानं निष्फलं न गमिष्यति।

हिन्दुस्थान समाचार