राहुल गांधी पाकिस्तानस्य प्रवक्ता इव ब्रूते : केशव मौर्यः
वाराणसी, 24 मईमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः महतीं तिरङ्गयात्रां पूर्वं कृत्वा कांग्रेसपक्षं समाजवादीपक्षं च तीव्रं समालोचितवान्। शनिवासरे आयोजितायां विशालायां तिरङ्गयात्रायाम् भागग्रहणं कर्तुं पूर्वं उपमुख्यमन्त्री श्री
उपमुख्यमंत्री केशव प्रसाद मौर्य वाराणसी में


वाराणसी, 24 मईमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः महतीं तिरङ्गयात्रां पूर्वं कृत्वा कांग्रेसपक्षं समाजवादीपक्षं च तीव्रं समालोचितवान्।

शनिवासरे आयोजितायां विशालायां तिरङ्गयात्रायाम् भागग्रहणं कर्तुं पूर्वं उपमुख्यमन्त्री श्री केशवप्रसादमौर्यः पत्रकारैः सह संवादे आरोपं कृतवान् यत् कांग्रेसपक्षः भारतीयसेनां दुर्बलयितुं षड्यन्त्रं कुर्वन्ति। लोकसभायां नेता प्रतिपक्षस्य राहुलगान्धिनः विदेशनीतिं प्रति कृतां आलोचनां प्रत्युत्तररूपेण सः उक्तवान् यत् राहुलगान्धिः इदानीं पाकिस्तानस्य प्रवक्तेः सदृशं वक्तव्यं ददाति।

उपमुख्यमन्त्री उक्तवान् यत् कांग्रेसपक्षः बारं बारं भारतीयसेनायाः सामर्थ्यं विषये प्रश्नान् उत्थापयति, एषा चिन्ता खलु दुर्भाग्यजनकः। एते वक्तव्यानि राष्ट्रविरोधिभ्यः शक्तिभ्यः उत्साहं यच्छन्ति।

समाजवादीपक्षस्य अध्यक्षं अखिलेशयादवं लक्ष्यीकृत्य सः कटाक्षरूपेण अवदत्—“ये शीशमहलेषु वसन्ति, ते अन्येषां दोषान् न निर्दिशन्तु।” सः अपि अवदत् यत् प्रदेशे विधिशृङ्खला पूर्णरूपेण सुव्यवस्था अस्ति। २०२७ तमे वर्षे निर्वाचनं दृष्ट्वा अखिलेशयादवः मुङ्गेरिलालस्य स्वप्नानिव दर्शनं कुर्वन् इत्यपि सः व्याजेन उक्तवान्। तस्याः निद्रायाः समाप्तौ एव ज्ञास्यति यत् समाजवादीपक्षः इदानीं ‘समाप्तवादी’ इत्येव जातः।

बिहारराज्ये चुनावं प्रति पृष्टे सः अवदत्—“प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे पुनः भाजपा-जेडीयू गठबन्धनम् बिहारराज्ये सरकारं स्थापयिष्यति।

सः भारतीयसेनायाः ‘ऑपरेशन सिन्दूर’ इति सफलतां प्रति हर्षं प्रकट्य उक्तवान् यत् भारतीयसेनायाः पराक्रमेण पुनः भारतस्य शिरः गौरवात् उन्नतम् अभवत्। चाहे सर्जिकल स्ट्राइक वा अन्याः सैन्यकार्यवाहिन्यः स्युः, सेना सदा राष्ट्रस्य मानरक्षणाय अग्रे स्थितवती। पूर्वं स्वस्य सामाजिकमाध्यमे लेखित्वा उपमुख्यमन्त्री एवमवदत्—

“सपा इत्युक्ते ‘लठैतवादः’, कांग्रेस इत्युक्ते ‘छद्मवादः’, भाजपा इत्युक्ते ‘प्रखरः राष्ट्रवादः च ।

---------------

हिन्दुस्थान समाचार