Enter your Email Address to subscribe to our newsletters
अररिया, 24 मईमासः (हि.स.)।एसएसबी ५६वीं वाहिन्याः पक्षे आत्मनिर्भरतायै ग्रामीणस्त्रीणां प्रशिक्षणार्थं शनिवासरे कुशमाहा बीओपी अन्तर्गतं हटेवा ग्रामे पञ्चदशदिवसीयं निःशुल्कं स्यूतकर्मणः च छेदनकर्मणः च प्रशिक्षणम् आरब्धम्।
एसएसबी ५६वीं वाहिन्याः कमाण्डेण्ट् सुरेन्द्र विक्रमस्य नेतृत्वे प्रशिक्षणस्य शुभारम्भः सम्पन्नः। एषः पञ्चदशदिवसीयः पाठ्यक्रमः रामा फाउण्डेशन् बीरपुर इत्यनेन हटेवा ग्राम एव आयोज्यते, येन सीमावर्ती क्षेत्रेषु निवसन्त्यः महिलाः स्वग्रामे एव सुलभतया प्रशिक्षणं प्राप्य दक्षाः स्युः।
अवसरे कमाण्डेण्ट् सुरेन्द्र विक्रम उक्तवान् यत् – “सेवा, सुरक्षा, बन्धुत्व” इति मूलवाक्येन सशस्त्रसीमाबलः नित्यं सेवायै च सुरक्षायै च समर्पितः अस्ति। अस्य प्रशिक्षणस्य प्रधानं लक्ष्यं यत् ग्रामीणस्त्रियः आत्मनिर्भराः भूत्वा सम्मानपूर्वकं जीवनं यापयेयुः।
कार्यक्रमे एसएसबी निरीक्षकः प्रवीण प्रभाकरः, अन्ये बलकर्मिणः, रामा फाउण्डेशनस्य व्यवस्थापकः देव कुमार साह, प्रशिक्षिका सबिना कुमारी, वार्ड् सदस्यः चन्द्रेश्वर सदा च, स्थानियग्रामीणाश्च उपस्थिताः
आसन्।
हिन्दुस्थान समाचार