अजमेरनगरे लॉरेन्स्समूहस्य सहसम्बद्धाः त्रयः युवका: गृहीताः, एका भूशुण्डी प्राप्ता षट् गोलिकाः च प्राप्तानि।
अजमेरम्, 06 मईमासः (हि.स.)। अजमेरनगरस्य हरिभाऊ - उपाध्यायनगर- आरक्षकक्षेत्रे आरक्षकसेनया एका भूषुन्डी षट् गोलिकाभिः सहितं त्रयः युवानः गृहीतवन्तः। तेषां समीपे एकं जीपयानम् अपि प्राप्तम्। आराक्षकसेना त्रीन् अपि अभियुक्तान् न्यायालयात् आरक्षकग्रहणे प्र
अजमेर में लॉरेंस गैंग के गुर्गे गिरफ्तार 1 पिस्टल व 6 जिंदा कारतूस बरामद


अजमेरम्, 06 मईमासः (हि.स.)। अजमेरनगरस्य हरिभाऊ - उपाध्यायनगर- आरक्षकक्षेत्रे आरक्षकसेनया एका भूषुन्डी षट् गोलिकाभिः सहितं त्रयः युवानः गृहीतवन्तः। तेषां समीपे एकं जीपयानम् अपि प्राप्तम्। आराक्षकसेना त्रीन् अपि अभियुक्तान् न्यायालयात् आरक्षकग्रहणे प्राप्त्यपृच्छां प्रारब्धवती। तेषां विरुद्धं पूर्वं अपि केचन दुष्कृत्यप्रकरणानि प्रविष्टानि सन्ति इति आरक्षकेन् ज्ञातम्। ज्ञायते च यत् एतेषां सम्बन्धः लॉरेन्स् विश्नोईगृहेण सह अस्ति इति।

आरक्षक-उपाधीक्षकः रुद्रप्रकाशशर्मा मीडियामाध्यमेन उक्तवान् यत् जनपद-विशेष-दलेन हरिभाऊ -उपाध्यायनगर- आरक्षकक्षेत्रे त्रयः दुर्जनाः सन्ति, येषां पार्श्वे शस्त्राणि सन्ति इति सूचना प्राप्ता। सूचनायाः आधारेण एकं दलं गठनं कृत्वा पुष्करघाट्यां मार्गावरोधं कृतम्। तत्र एकं जीपयानं रुद्धं, तस्याः परीक्षणे एका भूषुण्डी षट् च शरपिण्डानि प्राप्तानि। तत्र स्थितानां त्रयाणां युवानां पृच्छायाम् ते सन्तोषजनकं उत्तरं न दत्तवन्तः। अभियुक्तानाम् नामानि — भूपेन्द्रसिंहखरवः (ब्यावरनिवासी), दीपकरावतः (आदर्शनगरनिवासी), आदेशचौधरी च (पीसांगन्निवासी)। त्रयः अपि आरक्षकेण गृहीत्वा न्यायालये प्रस्तुताः, यतः ते प्रतिबंध रूपेण आरक्षकग्रहणं प्राप्तवन्तः।

तेषां विरुद्धं पूर्वं अपि नानाविधानि अभियोगप्रकरणानि प्रविष्टानि इति आरोपः। ते पञ्चमासपूर्वम् अपि शस्त्रसहितं मध्यप्रदेश- आरक्षकेन गृहीताः आसन् इति सूचना अस्ति।

आरक्षक-उपाधीक्षकस्य वचनेन त्रयः पुष्करयात्रायै यान्तः आसन्। आरक्षकसूचनायाः अनुसारं भूपेन्द्रसिंहखरवः स्वं लॉरेन्स्ग्रुहेण सहसम्बद्धं सहायक: इति कथयति। पूर्वं सः पंजाब- अरक्षकेन शस्त्रवितरणविषये गृहीतः। सः पूर्वम् अपि पंजाबकारागारे अफीमतस्कर्यविषये बद्धः आसीत् इति सूचना अस्ति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani