विवादितवक्तव्योत्तरं कन्नड़चलचित्रात्अपसारितं सोनू निगमस्य गीतम्
सद्यस्के समये प्रसिद्धगायकः सोनूनिगमो विवादे पतितः। एषः विवादः तेन कृतस्य वक्तव्यास्य प्रसङ्गे उत्पन्नः, यत्र सः एकस्य कन्नड्भक्तस्य गानयाच्ञां जम्मू-कश्मीरप्रदेशस्य पहलगामनगर्यां घटितस्य आत्यायिकआक्रमणेन सम्बद्धं कृतवान्। एतत् वक्तव्यं यदा सामाजिकमा
सोनू निगम


सद्यस्के समये प्रसिद्धगायकः सोनूनिगमो विवादे पतितः। एषः विवादः तेन कृतस्य वक्तव्यास्य प्रसङ्गे उत्पन्नः, यत्र सः एकस्य कन्नड्भक्तस्य गानयाच्ञां जम्मू-कश्मीरप्रदेशस्य पहलगामनगर्यां घटितस्य आत्यायिकआक्रमणेन सम्बद्धं कृतवान्। एतत् वक्तव्यं यदा सामाजिकमाध्यमेषु प्रसृतम्, तदा कन्नडसमुदायेन तीव्रा आपत्तिः व्यक्ता। क्रोधः एतावान् जातः यत् विषयः पुलिसपर्यन्तं प्राप्तः।

इदानीम् आगामिनः कन्नडचलचित्रस्य एकं गीतं, यस्मिन् सोनूनिगमस्य स्वरः आसीत्, चलचित्रात् निष्कासितम्। एषः निर्णयः जनभावनाः समाचिन्त्य स्वीकृतः।

यद्यपि सोनूनिगमेन कन्नडसमुदायस्य प्रति क्षमा याचिता, तथापि समुदायेन कोऽपि सौम्यता न दर्शिता। पूर्वं कन्नडचलच्चित्रजगत् तं बहिष्कृतवान्, अधुना तस्य गीतेन सह नूतनः निर्णयः अपि कृतः।

एतद् गीतं “कुलादल्ली कील्यावुडो” इति आगामिकचलचित्रस्य भागः आसीत्। अस्य चलचित्रस्य निर्माता एकं अधिकृतं वक्तव्यं प्रदत्तवन्तः, यस्मिन् ते सोनूनिगमस्य उक्तिं “अनुचितं च असंवेदनशीलं च” इति निर्दिष्टवन्तः। तैः एवं स्पष्टीकृतं यत् तेषां चलचित्रस्य उद्देशः कदापि जनभावनानां ताडनं नास्ति।

निर्मातारः स्ववक्तव्ये अतीव कठोरं रुखं प्रदर्शितवन्तः—“संदेहं विना वयं जानिमः यत् सोनूनिगम् श्रेष्ठगायकः अस्ति, किन्तु सः यत् किञ्चित् कृतवान्, तत् अस्माभिः न स्वीकृतम्। सः कन्नडजनानां यः अपमानं कृतवान्, तत् असह्यम्। अतः अस्माकं चलचित्रात् तस्य गीतं अपाकृतम्।

ते अयं अपि उक्तवन्तः यत् भविष्ये तेन सह कार्यं न करिष्यन्ति। एतेन विवादेन एतत् स्पष्टीकृतं यत् कन्नडचलच्चित्रजगति सोनूनिगमस्य पुनः प्रवेशः सरलः न भविष्यति।

-------------------

हिन्दुस्थान समाचार