Enter your Email Address to subscribe to our newsletters
राजकुमारराव-वामिकागब्ब्योः 'भूलचूकमाफ्' इति बहुप्रतीक्षितचलचित्रं सम्बन्धिनं विशेषोत्सुकता दर्शकेषु दृश्यते स्म। एषः चलचित्रः नवम्यां मेयमासे प्रेक्षागृहेषु प्रादुर्भवितुम् आसन्नः आसीत्। किन्तु अधुनातनेन निर्णयेन तस्य विमोचनं परिवर्तितम् अभवत्। विमोचनात् केवलं एकदिनपूर्वं चलचित्रनिर्मातारः ऐक्यवक्तव्येन एतत् घोषयामासुः यत् 'भूलचूकमाफ्' इति चलचित्रम् अधुना प्रेक्षागृहेषु न प्रदर्श्यते।
एतस्मिन् विषये निर्माता दिनेशविजानः स्ववक्तव्येन निर्णयस्य पुष्टिं कृतवान्। ते अवदन् —अस्यान्तिककाले जातानां घटनानां च राष्ट्रे सम्यक् रक्षायाः कृते वर्धितप्रयत्नानां च परिप्रेक्ष्ये 'भूलचूकमाफ्' इत्यस्य चलचित्रस्य गृहे गृहे प्रत्यक्षं प्रेषणं करणीयम् इति माडॉकफिल्म्स् इत्यनेन निर्णयः कृतः। एतत् चलचित्रं षोडशे मेयमासे केवलं प्राइम् वीडियो नामक-ओटीटी-मञ्चे दर्शनीयं भविष्यति। यद्यपि वयं प्रेक्षागृहे यूयं सह साक्षात् मिलनाय उत्सुकाः स्म, तथापि राष्ट्रभावनायाः दृष्ट्या एषः निर्णयः अस्माकं कृते सर्वाधिकः। जय हिन्द्।
'भूलचूकमाफ्' इति चलचित्रं एकं सौम्यम् हास्यप्रधानं पारिवारिकम् चलचित्रम् अस्ति, यः हसितम् अपि, हृदयस्पर्शिन् क्षणान् अपि दर्शकेभ्यः यच्छति। अस्मिन् चलचित्रे राजकुमारराव-वामिकागब्ब्योः युग्मम् प्रथमवारं दृश्यते स्म, येन एकं नवीनम् रमणीयं च सामञ्जस्यं प्रेक्षकाः अनुभविष्यन्ति। प्रेक्षागृहस्य स्थाने ओटीटी-मञ्चे विमोचनात् एतत् चलचित्रं अधिकजनानां समीपं सुलभतया गमिष्यति, विशेषतया तेषां कृते ये स्वगृहे परिवारेण सह मनोरञ्जनस्य आनन्दं लब्धुम् इच्छन्ति। एतस्य चलचित्रस्य प्रथमदर्शनीं षोडशे मेयमासे अमेज़नप्राइम्-वीडियो-मञ्चे भविष्यति। अस्य निर्देशनं करणशर्मा नामकद्वारा कृतम्।
--------------------
हिन्दुस्थान समाचार