आजादमलिकेन पाकिस्तानस्य कृते गवेषणस्य आशङ्का, प्रवर्तननिदेशालयेन 20 सहस्रपृष्ठं गोपनीयाभिलेखपत्रम् अधिगृहीतम्
कोलकाता, 9 मईमासः( हि.स.)। कुटकरण -पारपत्रप्रकरणे गृहीतस्य आजादमलिकस्य विषये अधुना राष्ट्रियसुरक्षासंस्थानां चिन्ता गभीरा भवति। प्रवर्तननिदेशालयेन (ईडी) अन्वेषणकाले अभियुक्तस्य दुरवाणी तः प्रायः 20 सहस्रपृष्ठानि संदिग्धाभिलेखपत्राः- प्रतिलब्धाः। एतदत
आजादमलिकेन पाकिस्तानस्य कृते गवेषणस्य आशङ्का, प्रवर्तननिदेशालयेन 20 सहस्रपृष्ठं गोपनीयाभिलेखपत्रम् अधिगृहीतम्


कोलकाता, 9 मईमासः( हि.स.)। कुटकरण -पारपत्रप्रकरणे गृहीतस्य आजादमलिकस्य विषये अधुना राष्ट्रियसुरक्षासंस्थानां चिन्ता गभीरा भवति। प्रवर्तननिदेशालयेन (ईडी) अन्वेषणकाले अभियुक्तस्य दुरवाणी तः प्रायः 20 सहस्रपृष्ठानि संदिग्धाभिलेखपत्राः- प्रतिलब्धाः। एतदतिरिक्तं कोडभाषायाम् अभिलेखिताः केचन विडियोदृश्यानि, छायाचित्राणि, स्वरटिप्पण्यानि च प्राप्तानि, येषां सम्यक् अन्वेषणं क्रियते ।

सूत्रानुसारम् आजादमलिकः स्वस्य वास्तविकपरिचयं गोपयन् विगतः 13 वर्षेभ्यः भारते निवसति स्म । सः उत्तर 24 परगनामण्डलात् बाङ्गलादेशीयनागरिकत्वेन अवैधरूपेण भारतं प्रविष्टवान्, दलाल इत्यनेन कुटकरण अभिलेखपत्रान् सज्जीकृत्य भारतीयपरिचयपत्रं पारपत्रं च प्राप्तवान् ।

प्रारम्भे एषः प्रकरणः केवलं कुटकरणअभिलेखपत्रान् अवैधसुरक्षापत्रैः च सम्बद्धः आसीत्, परन्तु अधुना अन्वेषणसंस्थानां शङ्का अस्ति यत् आजाद मलिकस्य पाकिस्तानीगुप्तचरसंस्थाभिः सह अपि सम्बन्धः भवितुम् अर्हति इति। प्रवर्तननिदेशालयः-अधिकारिणः कोलकाता-सत्रन्यायालये अवदन् यत् अभियुक्तानां भुक्ति तः प्राप्तेषु दूरवाणी-इत्येषु अनेकाः कोडशब्दाः सहितं संदिग्धाः सूचनाः संचाराः च प्राप्ताः। अन्वेषणसंस्थाः तानि वार्तालापानि उद्घटयितुं व्यस्ताः सन्ति।

कथ्यते यत् आजादः भारते निवसन् अपि सः पाकिस्तान-देशेन सह विविध-माध्यमेन सम्पर्कं कृतवान् । प्रवर्तननिदेशालय इत्यनेन अनेकेषां व्हाट्सएप् समूहानां विषये सूचनां प्राप्ता येषु आजादः सम्मिलितः आसीत् । एतानि तथ्यानि न्यायालये प्रस्तुत्य प्रवर्तननिदेशालय अभियुक्तस्य पञ्चदिनानाम् अभिरक्षणं याचितवान्, यस्य श्रवणानन्तरं न्यायालयेन मई 13 पर्यन्तं प्रवर्तननिदेशालय इत्यस्य अभिरक्षणस्य अनुमतिः दत्ता।

भारतस्य आन्तरिकसुरक्षायाः दृष्ट्या एषः विषयः अतीव संवेदनशीलः इति मन्यते । प्रर्वतननिदेशालय तथा केन्द्रीयगुप्तचरसंस्थाः अस्य तलपर्यन्तं गन्तुं प्रयतन्ते यत् आजाद मलिकः खलु पाकिस्तानस्य गुप्तचर्याम् अकरोत् वा, यदि च अस्ति तर्हि एतावता सः का सूचनां स्रवति कृतवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA