Enter your Email Address to subscribe to our newsletters
– ‘डी.एड्’ उपाधिधारिणं सहायकाध्यापकपदस्य अर्हं न मान्यते इत्यादेशे हस्तक्षेपं कर्तुं उच्चन्यायालयेन निषेधः कृतः।
प्रयागराजः, ०९ मईमासः (हि.स.)।इलाहाबाद उच्चन्यायालयेन स्वदत्ते एकस्मिन् निर्णये उक्तं यत् डिप्लोमा इन एजुकेशन (डी.एड्) च डिप्लोमा इन एलीमेंटरी एजुकेशन (डी.एल.एड्) इत्येते समतुल्यपाठ्यक्रमौ न स्तः, च डी.एड्-उपाधिधारी सहायकाध्यापकपदस्य नियुक्त्यर्हः नास्ति इति। न्यायालयेन याचकस्य – डी.एड् डिप्लोमा-धारिणः – सहायकाध्यापकपदे नियुक्तिं न स्वीकृत्य प्रदत्ते आदेशे हस्तक्षेपं कर्तुं निषेधः कृतः, च याचिका अपि निरस्ताऽभवत्। एषः आदेशः न्यायमूर्ति सौरभ श्याम शमशेरी-महोदयस्य एकलपीठेन संघप्रिय गौतमस्य याचिकायाः सन्दर्भे दत्तः।
याचकः सन् २०१४ तमे वर्षे मध्यप्रदेश-माध्यमिकशिक्षाबोर्डतः ‘डी.एड्’ डिप्लोमाः प्राप्तवान्। सः २०१५ तमे वर्षे शिक्षकपात्रतापरीक्षां (टीईटी) उत्तीर्णवान् च, ततः २०१६ तमे वर्षे आरब्धायां सहायकाध्यापक-चयनप्रक्रियायाम् भागं गृहीतवान्। सः चयनितः अपि घोषितः अभवत्। ०७ जनवरी २०२४ दिनाङ्के सीतापुर-जनपद-बेसिकशिक्षाधिकारी-द्वारा याचकाय सहायकाध्यापकपदस्य नियुक्तिपत्रं प्रदत्तम्। किन्तु, तस्य ‘डी.एड्’ प्रमाणपत्रं ‘डी.एल.एड्’-समतुल्यं न स्वीकृतम् इति कारणेन विद्यालयस्य आवंटनं नाभवत्।न्यायालयेन स्वनिर्णये उक्तं यत् राष्ट्रीय अध्यापकशिक्षापरिषदः अधिसूचना अनुसारं कक्षा १-५ पर्यन्तं विशेषवर्गे पाठयितव्यम् अध्यापकानां नियुक्त्यर्थं ‘डिप्लोमा इन एलीमेंटरी एजुकेशन’ आवश्यकः इति मान्यते।न्यायालयेन स्पष्टीकृतं यत् डी.एड् च डी.एल.एड् इत्येतयोः पाठ्यक्रमयोः मूलभूतः भेदः अस्ति। डी.एल.एड् पाठ्यक्रमः बालविकासः, बालमनोविज्ञानम्, शिक्षणस्य प्राथमिकपद्धतयः इत्यादिषु केन्द्रीयतया स्थितः, यदा डी.एड् सामान्यशिक्षाविषयेषु आधारितः अस्ति। एतेन आधारेण न्यायालयेन उक्तं यत् याचकः न्यूनतम-शैक्षिक-योग्यता न पूरयति, अतः तस्य नियुक्तिः नियमविरुद्धा अस्ति।
हिन्दुस्थान समाचार