Enter your Email Address to subscribe to our newsletters
दक्षिणभारतीयचलच्चित्रजगतः प्रसिद्धः नटः विजयदेवरकोंडा स्वस्य षट्त्रिंशत्तमं जन्मदिनं नवमे मई मासे उत्सवतः अन्वभवत्।अस्य विशेषसन्धौ तस्य ‘वीडी१४’ इति बहुप्रतीक्षितस्य चलचित्रस्य प्रथमदर्शनम् प्रकाशं प्राप्तम्।एतत् ऐतिहासिकं चलचित्रं राहुलसांकृत्यायन इत्यनेन निर्देश्यते, यः नानी-सायिपल्लवी-नायकयोर् अभिनययुक्तं चर्चितं चलचित्रं श्यामसिंघारॉय इत्याख्यं कारणतः प्रसिद्धः अस्ति।प्रथमदर्शन-पोस्टरेण सह एव निर्मातृभिः विजयदेवरकोंडाय जन्मदिनस्य सन्दर्भे विशेषरूपेण शुभकामनाः दत्ताः, येन तस्य चलचित्रस्य प्रतीक्षा जनानां मध्ये अधिकं हर्षं समुत्पादितम्।चलचित्रस्य निर्मातृभिः पोस्टरं प्रकट्य लेखितम्—“ईश्वरः तस्मै शक्तिं दत्तवान्, युद्धेन च तस्य जीवनं लक्ष्यार्थं प्राप्तम्।”इत्येतेन रहस्यमयेन वाक्येन दर्शकानां कौतुहलम् अपि वर्धितम्।एतस्मिन फलके विजयदेवरकोंडस्य मुखं न दर्शितम्, येन तस्य पात्रं प्रति रहस्यभावः स्थितः अस्ति।एतत् चलचित्रं तस्य अद्यावधि सर्वथा विशिष्टः शक्तिमान् च अवतारः भविष्यति इत्याशा अस्ति।‘पुष्पा’ इत्यस्य शृङ्खलायाः निर्मातृभिः एव एषः चलचित्रः निर्मितः अस्ति, येन दर्शकानां आशाः अत्यधिकाः जाताः।एतेन सह, विजयदेवरकोंडा अद्यापि ‘किङ्ग्डम्’ इत्याख्यं अन्यं चलचित्रं प्रति चर्चायाम् अस्ति, यः ३० मई दिनाङ्के चित्रगृहेषु विमोच्यते।
----------------------------------
हिन्दुस्थान समाचार