जापाने आयोजिते वर्ल्ड एक्सपो इति कार्यक्रमे भारत पैवेलियने गुजरातस्य सर्वाधिकम् आकर्षणम्
-ओसाका–वर्ल्ड् एक्स्पो २०२५ मध्ये गुजरातस्य क्षेत्रं – प्रथमपञ्चदिनेषु प्रतिदिनं ११,००० दर्शकानाम् आगमनम् – समृद्धइतिहासाधारितानि कलानिर्माणानि च, जापानीभाषायाम् श्रीमद्भगवद्गीतायाः अपि प्रदर्शनेन। गान्धीनगरम्, ९मईमासः(हि.स.)। गुजरातस्य इतिहासे च सं
गुजरात


गुजरात


गुजरात


-ओसाका–वर्ल्ड् एक्स्पो २०२५ मध्ये गुजरातस्य क्षेत्रं – प्रथमपञ्चदिनेषु प्रतिदिनं ११,००० दर्शकानाम् आगमनम् – समृद्धइतिहासाधारितानि कलानिर्माणानि च, जापानीभाषायाम् श्रीमद्भगवद्गीतायाः अपि प्रदर्शनेन।

गान्धीनगरम्, ९मईमासः(हि.स.)। गुजरातस्य इतिहासे च संस्कृतेः च विषये विश्वजनानां आकर्षणं दृश्यते। जापानदेशस्य ओसाका नगरे आयोज्यमाने वर्ल्ड् एक्स्पो २०२५ इत्यस्मिन् गुजरात-संस्कृतिं ज्ञातुं, तस्य रसास्वादं कर्तुं च, सहस्रशः दर्शकाः समागच्छन्ति।

उल्लेखनीयं यत् ओसाका नगरे ४ मे दिनाङ्कतः १७ मे दिनाङ्कपर्यन्तं वर्ल्ड् एक्स्पो २०२५ इत्यस्य आयोजनं क्रियते। अस्मिन् एक्स्पो मध्ये निर्मिते भारतपैवेलियन् इत्यस्मिन् गुजरातक्षेत्रस्य प्रभावकारीं प्रस्तुतिं दर्शयन्ति। ४ मे आरभ्य ८ मे पर्यन्तं प्रथमपञ्चदिनेषु प्रतिदिनं औसततः ११,००० दर्शकाः भारतपैवेलियनस्य अन्तर्गतं गुजरातक्षेत्रं दृष्ट्वा तस्य गौरवं अनुभूतवन्तः।

गुजरातराज्यस्य उद्योगखानि-विभागस्य अपरमुख्यसचिवा ममता वर्मा इत्याख्यया उक्तं यत्, ‘‘वयं विजन् २०४७ इत्यस्य अन्तर्गतं आधुनिकं, नागरं, तन्त्रज्ञानेन सम्पन्नं च गुजरातं अस्मिन्न् भव्ये मंचे प्रस्तुतवन्तः स्म। अस्माकं प्रस्तुतिरेव सा या जापानदेशीयान् च विश्वजनान् च हृदयतले स्पृशति।”

उद्योगायुक्तः च iNDEXTb संस्थायाः अध्यक्षः स्वरूप पी. महोदयः अवदत् यत्, ‘‘तन्त्रज्ञानं च संस्कृति च – एते द्वौ घटकौ गुजरातस्य आधुनिकप्रगतिशीलस्वरूपं विश्वदर्शकेषु सुदृढीकृतवन्तौ।”

भारतपैवेलियनस्य अन्तर्गतं गुजरातक्षेत्रे निम्नलिखिताः विशेषताः दर्शिताः सन्ति–

१. गुजरातस्य समृद्धइतिहासं च जापानदेशेन सह सम्बन्धं च प्रकाशयन्ति कलाकृतयः पुस्तकानि च, यत्र जापानीभाषायाम् अपि श्रीमद्भगवद्गीता प्रस्तुतिता अस्ति।

२. पर्यटनं, संस्कृति: च पारम्परिकवेषभूषा च इत्येषां प्रत्यक्षानुभवानाय कृत्रिमबुद्धिः (AI) च आभासीवास्तविकता (VR) च आधृतः प्रदर्शः।

३. एकः QR-संकेतसक्षमः त्रैविम (3D) आदर्शमण्डपः, यः गुजरातं पवनशक्तेः, अर्धचालकक्षेत्रस्य, बुद्धिशालिनगराणां, आधुनिकमूलभूतसंरचनायाः, संप्रेषणव्यवस्थायाः च क्षेत्रेषु योगदानकर्तारं राज्यं इत्यस्मिन् रूपेण दर्शयति।

४. गुजरातस्य पारम्परिकलोकनृत्यानां समृद्धसंस्कृतेः च प्रदर्शनाय एकः सांस्कृतिकदलः अपि आयोजितः।

५. व्यापारसमुदायानां पर्यटकानां च आकर्षणाय गुजरातपर्यटनं, व्यापारं निवेशः च विषयीकृत्य निर्मिताः चलचित्राः अपि प्रस्तुता:।

वर्ल्ड् एक्स्पो २०२५ इत्यस्मिन् गुजरातक्षेत्रस्य आकर्षणं दर्शकेषु स्पष्टं दृश्यते। दर्शकगणेषु अन्यदेशीयप्रतिनिधयः, जापानदेशीयस्थानिकनिवासिनः, अनेकाः ख्यातमानाः व्यक्तयः च सन्ति। जापानीमाध्यमान्यपि गुजरातक्षेत्रस्य भारतपैवेलियनस्य च समाचारान् विषदं प्रकारेण प्रसारितवत्यः।

गुजरातस्य सांस्कृतिककार्यक्रमेषु गृहपूर्णदर्शकाणाम् उपस्थितिः

सर्वाधिकम् आकर्षणं नाट्यकलाकारैः सह चित्रग्रहणाय दृश्यते स्म। ततः अनन्तरं कृत्रिमबुद्धियुक्तः छायागृहः च आभासीवास्तविकतानुभवः च अपि दर्शकेषु प्रसिद्धिं प्राप्तवन्तौ।

सर्वे नृत्यप्रदर्शनानि कार्यशालाश्च इदानीन्तनपर्यन्तं गृहपूर्णानि अभवन्। सायं समये अपि प्रचण्डभीः दृष्टा जाता।

तन्त्रज्ञानस्य साहाय्येन गुजरातस्य अनुभवं प्राप्तुं VR च AI छायागृहयोः कृते दीर्घाः पङ्क्तयः दृश्यन्ते स्म। QR-संकेतद्वारा दर्शकाः गुजरातस्य कलाकृतीनां विषये विस्तीर्णं ज्ञानं लभन्ते स्म, यत् तेषां इतिहासं उत्पत्तिं च प्रकाशयति।

तदनन्तरं बालकानां युवानां च मध्ये त्रैविम-आदर्शस्य सन्निकर्षेण दर्शनाय विशेषः उत्साहः दृश्यते स्म, यत्र व्यवसायिनः QR-संकेतान् स्क्यान् कृत्वा विस्तीर्णविवरणं प्राप्नुवन्ति स्म।

हिन्दुस्थान समाचार