Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 9 मईमासः (हि.स)।सीमायाः सन्निकर्षे जातेन तनावेन उत्पन्नानां सुरक्षा-संवेदनानां मध्ये वित्त-मन्त्री निर्मलासीतारमणया बैंकेभ्यः सततं सजगः भवितव्यमिति निर्देशः।
नवदिल्ली, ९ मईमासः
(हि.स.)। भारतीय-सीमायां प्रचलमानस्य तनावस्य सन्दर्भे वर्तमानाः सुरक्षा-चिन्ताः दृष्ट्वा, भारतस्य केन्द्रीयवित्त-च कॉर्पोरेट्-मन्त्रिणी श्रीमति निर्मला सीतारमण इत्याख्यया बैंकेभ्यः चेतावनी प्रदत्ता यत् ते सर्वे संकटस्थितेः प्रतिकाराय पूर्णतः सजगाः स्युः।
वित्तमन्त्री अवदत् यत् देशस्य बैंकिंग्-वित्तीय-प्रणाली सुदृढा च लवणुका च अस्ति।
पाकिस्तानदेशेन सह प्रचलमानस्य तनावस्य मध्य एव सीतारमण-महाभागया नवदिल्ली-नगरे आयोज्यमाने एका उच्चस्तरीया बैठकायां भाषणं कृतम्, यत्र सार्वजनिक-निजीखण्डयोः बैंकेषु च बीमासंस्थासु च कार्यरतानां मुख्यकार्यकारीअधिकाऱिणां (CEO) प्रबन्धननिर्देशकानां (MD) च सन्निधिः आसीत्।
वित्तमन्त्री अवदत्—
भारतराज्यं राष्ट्रीय-सुरक्षायाः आर्थिक-स्थैर्यस्य च विषये पूर्णतः प्रतिबद्धम् अस्ति।
तया बैंकेभ्यः निर्देशः दत्तः यत्—
ते सर्वे कस्यापि आपदावस्थायाः सम्यक् प्रतिकाराय सज्जतया कार्यं कुर्वन्तु, यथा देशव्यापिनीं, विशेषतः सीमावर्ती-प्रदेशेषु अपि, बैंकिंग्-वित्तीयसेवानां अविरलप्राप्तिः सुनिश्चितुं शक्यते।
वित्तमन्त्री अवदत्—
बैंकिंग्-सेवाः, भौतिक-डिजिटलरूपेण, व्यवधानरहितेन प्रकारेण सञ्चलनीया एव। आकस्मिकपरिस्थितीनां प्रतिकाराय आपात्कालीन-प्रोटोकालः परिष्कृतः परीक्षितश्च स्यात्।
सीतारमण-महाभागया सीमावर्ती-प्रदेशेषु कार्यरतानां शाखाकर्मचारिणां तेषां च कुटुम्बजनानां सुरक्षा विषयकं चिन्तनं प्रकट्य बैंकेभ्यः निर्देशः दत्तः यत्—
ते सुरक्षायाः निमित्तं सुरक्षा-एजेन्सीभिः सह सम्यक् समन्वयं कुर्वन्तु।
तया पुनः उक्तं यत्—
प्रायोजकबैंका: एतेषां दिवसानां समये प्रादेशिकग्रामीणबैंकेभ्यः (RRB) सम्यकं समर्थनं दद्यु:। यथा ताः कापि कठिनतां न प्राप्नुयुः।
वित्तमन्त्रालयेन प्रकाशिते वक्तव्ये उक्तं यत्—
एष्यां बैठके वित्तसेवासंविभागः (DFS), वित्तमन्त्रालयम्, CERT-In, भारतीयरिज़र्वबैंकः (RBI), बीमाविनियामकसंस्था IRDAI, भारतीयभुगताननिगमं (NPCI) च सम्मिल्य एकत्रिताः सन्तः बैंकिंग्-क्षेत्रस्य परिचालनसज्जता-साइबरसुरक्षा इत्यादिषु, विशेषतः इन्टरनेट्बैंकिंग्, UPI इत्यादि डिजिटल्-अनुप्रयोगानां सन्दर्भे, समीक्षा अपि कृतवत्यः।
---------------
हिन्दुस्थान समाचार