Enter your Email Address to subscribe to our newsletters
पटना, 11 जूनमासः (हि.स.)।
मुख्यमन्त्री नीतीशकुमारः अद्य पटनामहानगरस्य मेट्रोरेलपरियोजनायाः निर्माणकार्यस्य प्रगतिं निरीक्षितवान्। निरीक्षणकाले मुख्यमन्त्री महोदयः मलाहीपकड़ी तथा भूतनाथ मेट्रोस्थानकयोः निर्माणाधीनकार्याणां स्थलदर्शनं कृतवान्।
निरीक्षणसमये नगरविकास-आवासविभागस्य सचिवः श्रीमान् अभयकुमारसिंहः साइट्-मैप् द्वारा मुख्यमन्त्रिणं प्रति पटना-मेट्रो-रेल-परियोजना अन्तर्गतं प्राधान्यमार्गे मलाहीपकड़ीतः पाटलिपुत्र-बस्-टर्मिनलपर्यन्तम् — सञ्चालिते निर्माणकार्ये प्रगतेः अद्यतनस्थितेः च विषये विस्तृतं विवरणं प्रदत्तवान्।
ततः श्री सिंह महोदयेन मलाहीपकड़ी मेट्रोस्थानके स्वचालितसीढ्यः, टिकटनिकायालयः, यात्रिसुविधाः, सार्वजनिकप्रदेशः, पारिश्रमिकप्रदेशः, लिफ्ट्, मञ्चपर्यन्तगमनमार्गः इत्यादयः सर्वाः आवश्यकसुविधाः मुख्यमन्त्रिणे प्रदर्शिताः।
तेन एव उक्तं यत् — मलाहीपकड़ीतः खेमनीचक्, भूतनाथरोड्, जीरोमाइल्, पाटलिपुत्रबसटर्मिनल् पर्यन्तं मेट्रोरेलमार्गः (कुलम् 6.20 कि.मी.) अत्यावश्यकताया आधारं कृत्वा शीघ्रं निर्माणसमाप्तिं प्राप्नुयात् इति लक्ष्यं स्थापितम्। अस्य संचालनाय बिहारराज्यसरकारया 115.10 कोटिरूप्यकाणि प्रदत्तानि सन्ति। एषः मार्गः 15 अगस्त् 2025 दिनाङ्कपर्यन्तं प्रारम्भेयं इति लक्ष्यं निश्चयितम्।
निरीक्षणकाले मुख्यमन्त्रिणा मेट्रोनिर्माणकार्ये शीघ्रता क्रियेत इत्यादिशासनं अधिकारिणां प्रति प्रदत्तम्। तेन उक्तं यत् – पटना-मेट्रो-रेल-परियोजनायाः रूपरेखा उत्तमे प्रकारेण आयोजिता। अस्य निर्माणकार्यस्य नियमितं निरीक्षणं वयं कुर्मः। निर्माणकार्ये बाधा न भवेत् इति लक्ष्यं कृत्वा निरन्तरं निर्देशाः अपि दत्ताः। परियोजनां समये पूर्णतां प्राप्नुयात् यथा, तथा यत्नः क्रियते यत् जनानां आवागमनं सुलभं भवेत्। कार्यक्रमे नगरविकास-आवासमन्त्री श्री जिवेशकुमारः तथा सचिवः श्री अभयकुमारसिंहः अपि सन्निहितौ आस्ताम्। तौ उभौ पुष्पगुच्छं समर्प्य मुख्यमन्त्रिणं स्वागतं कृतवन्तौ।
---------------
हिन्दुस्थान समाचार