Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 11 जूनमासः (हि.स.)।
दिल्लीराज्यस्य स्वास्थ्यमन्त्री डॉ. पङ्कजकुमारसिंह महोदयः उक्तवान् यत् – आयुष्मान् भारत अन्तर्गतं ‘प्रधानमन्त्री जनआरोग्ययोजना’ (पीएम् जे ए वाय्) ‘स्वस्थदिल्ली, सशक्तदिल्ली’ इत्यस्य दिशायां एकः ऐतिहासिकः चरणः सम्पद्यते इति। तेन सूचितं यत् दिल्लीसरकारा अद्यावधि ‘प्रधानमन्त्री जनआरोग्ययोजना’ तथा ‘वयवन्दना योजना’ (वीवीवाई) अन्तर्गतं त्रयः लक्षाधिकानि चतुश्चत्वारिंशत्सहस्राधिकानि (3,45,000+) स्वास्थ्यपत्राणि निर्गतवती अस्ति। एषा सूचना बुधवासरे तेन प्रकाशिता।
स्वास्थ्यमन्त्रिणा कथितं यत् – एतेषु स्वास्थ्यपत्रेषु १,६७,००० पत्राणि विशेषतया ‘वयवन्दना योजना’ अन्तर्गतं सप्तत्यधिकवयस्केभ्यः वृद्धजनाभ्यः प्रदत्तानि सन्ति। वयवन्दना-पत्रेण सर्वे वृद्धजनाः निःशुल्कं च निर्गतशुल्कं च उपचारं प्राप्नुवन्ति। राजधानीदिल्लीमध्ये एष्याः योजनायाः अन्तर्गतं ८५ चिकित्सालयाः सम्बद्धाः सन्ति, यत्र ६० व्यक्तिचालिताः चिकित्सालयाः च २५ शासकीयाः चिकित्सालयाः अन्तर्भवन्ति। एते सर्वे चिकित्सालयाः पात्रलाभार्थिभ्यः निर्गतशुल्कं उपचारं ददाति।
स्वास्थ्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिना नेतृत्वे, मुख्यमंत्री रेखागुप्ताया दूरदर्शिन्याः नेतृत्वे च दिल्लीसरकारा आरोग्यसेवानां सुलभता, सस्तता, समावेशकता च वर्धयितुं विविधान् उपायान् स्वीकृतवती। सर्वकारः अस्यां योजनायां शीघ्रमेव ३,४५,१४० स्वास्थ्यपत्राणि वितरितवती। एतेषु १,६६,८४१ पत्राणि ‘वयवन्दना योजना’ अन्तर्गतं विशेषतया वृद्धजनानां कृते प्रदत्तानि, या योजना स्वप्रकारेण अनन्या च अद्वितीया च अस्ति।
तेन उक्तं यत् दिल्लीसरकारायाः वयवन्दना योजना वृद्धजनैः सह अतीव हर्षेण स्वीकृता। योजना अन्तर्गतं समुपलब्धेषु आँक्येषु स्पष्टं दृश्यते यत् – १,२४,२१५ स्वपञ्जीकरणानि सम्पन्नानि, यत्र ११,२८४ बीआईएस्-सेवकद्वारा च, ४२,१७६ कॉमन्-सर्विस्-केन्द्र-सेवकद्वारा च सम्पन्नानि सन्ति। एषा सरकारायाः कुशल-सुलभ-पञ्जीकरणप्रक्रियायाः सफलता प्रदर्श्यते। स्वास्थ्यमन्त्रिणा उक्तं यत् – आयुष्मान् आरोग्यमन्दिराणां निर्माणकार्ये अपि दिल्लीसरकारा शीघ्रतया प्रवृत्ता। आयुष्मान् भारत मिशन अन्तर्गतं एतानि केन्द्राणि आधुनिकं प्राथमिकस्वास्थ्यसेवा-केंद्ररूपेण विकसितुं कार्यं प्रचलति। दिल्ली-राजधानीमध्ये ११३९ आयुष्मान् आरोग्यमन्दिराणां निर्माणकार्यं प्रचलति। अस्माकं सरकारस्य प्राधान्यम् अस्ति यत् – सम्पूर्णे सप्ततिविधानसभा-क्षेत्रेषु सम्यक् संख्यायुक्तानि आरोग्यमन्दिराणि निर्मीयन्ताम्, येन स्वास्थ्यसेवाः सर्वे गली-महल्लान्तं जनानां समीपं प्रतिपद्येरन्।
--------------
हिन्दुस्थान समाचार