केन्द्र सर्वकारः पंक्तौ उत्थितं अंतिमजनं यावत् योजनानां प्राप्नुयात् लाभम् - मनीषग्रोवरः
वर्तमाने देशे एकस्याः विचारधारायाः चलति शासनं, विश्वस्मिन् देशस्य वर्धितं गौरवम् केंद्र सर्वकारस्य उपलब्धीः प्रदर्शयति सप्त दिवसीय प्रदर्शन्याः कृतः शुभारंभः रोहतकम्, 12 जूनमासः (हि.स.)। प्रधानमन्त्रिणः नेतृत्वे भारतस्य प्रगति – पूर्वसहकारितामन्त
केन्द्र सर्वकारः पंक्तौ उत्थितं अंतिमजनं यावत् योजनानां प्राप्नुयात् लाभम् - मनीषग्रोवरः


वर्तमाने देशे एकस्याः विचारधारायाः चलति शासनं, विश्वस्मिन् देशस्य वर्धितं गौरवम्

केंद्र सर्वकारस्य उपलब्धीः प्रदर्शयति सप्त दिवसीय प्रदर्शन्याः कृतः शुभारंभः

रोहतकम्, 12 जूनमासः (हि.स.)।

प्रधानमन्त्रिणः नेतृत्वे भारतस्य प्रगति – पूर्वसहकारितामन्त्रिणा मनीषग्रोवर-महोदयेन उक्तम्

पूर्व-सहकारिता-मन्त्री मनीषग्रोवरः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिना नेतृत्वे अधुना भारतदेशः निरन्तरं विश्वगुरोः पदं प्रति अग्रसरः अस्ति। केन्द्र-सरकारेण पंक्त्यां स्थितस्य अन्तिमजनस्यापि योजनानां लाभः प्रदत्तः।

तेन उक्तं यत् – अधुनातनकाले कश्मीरात् कन्याकुमार्याः पर्यन्तम् एकस्यैव विचारधारायाः शासनम् आरूढं वर्तते, येन राष्ट्रस्य गौरववृद्धिः सम्पन्ना।

एतानि वाक्यानि सः गतगुरुवासरे सूचना, जनसंपर्कं च भाषा-विभागेन आयोजितं प्रधानमन्त्री नरेन्द्रमोदिना नेतृत्वे केन्द्र-सरकारस्य *एकादशवर्ष-पूर्णतास्मरणे आयोजितायाः सप्तदिवसीयायाः राज्यस्तरीय-प्रदर्शनीयाः उद्घाटनकाले जिलाविकासभवनस्य सभागारे अवदत्।

सः प्रदर्शने प्रदर्शितानां जनकल्याणकारीयोजनानां च उपलब्धीनां च अवलोकनं कृतवान्।

पश्चात् पत्रकारैः सह संभाषमाणः मनीषग्रोवर-महोदयः अवदत् यत्

प्रधानमन्त्रिणः नरेन्द्रमोदेः नेतृत्वे गत-एकादशवर्षेषु धर्म, जातिः, प्रान्तवादः इत्यादीनां भेदान् विहाय सर्वेषां क्षेत्राणां समुन्नतिः सम्पादिता।

केन्द्र-सरकारेण सर्ववर्गहिताय योजनाः कार्यक्रमाश्च सञ्चाल्यमानाः।

तेन स्मारितं यत् – कियतिदिनानि पूर्वं पहलगामे पर्यटकानां आतंकवादिभिः क्रूरहत्या जातायाः अनन्तरं राष्ट्रे जनानां मध्ये महती क्रोधभावना उत्पन्ना। तेन अपि उक्तं यत् —

देशे स्वदेशी-अस्त्रशस्त्राणां विकासः सरकारेण प्रोत्त्साहितः, येन भारतीयसेनया पाकिस्तानं प्रति महत् हानिः अपादितः।

विशेषतः भारतीयसेनायाः महिला-अधिकारिण्यः अपि आतंकवादिनां गूढस्थलानि ध्वस्तवतीः।

तेन आवेदितं देशस्य सैनिकेषु अस्माकं गर्वः वर्तते।

एतस्मिन् अवसरे भारतीयजनता-पक्षस्य जिलाध्यक्षः रणबीरसिंह-ढाकामहोदयः अपि उक्तवान् यत्

प्रधानमन्त्रिणा भारतं सन् 2047 पर्यन्तं विकसितराष्ट्रं कर्तुम् यः संकल्पः कृतः, तस्मिन् प्रत्येकः नागरिकः आत्मनः पूर्णं योगदानं दातुं सिद्धः अस्ति।

सः अपि अवदत् यत् गतेषु ११ वर्षेषु राष्ट्रे महान्तः परिवर्तनाः जाताः, अधुना भारतः विश्वस्य चतुर्थ्या आर्थिक-महाशक्त्या रूपेण स्थितः अस्ति।

अस्मिन् कार्यक्रमे उपायुक्तः धमेन्द्रसिंहः, जिला-सूचना-जनसंपर्क-अधिकारी संजीवसैनी, ओंप्रकाशबागडी, संदीपकुमारः, अधिवक्ता-संदीपकुमारः इत्यादयः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार