Enter your Email Address to subscribe to our newsletters
भाेपालम्, 12 जूनमासः (हि.स.)। अद्य (गुरुवासरे) सम्पूर्णे विश्वे बालश्रमविरुद्धविश्वदिवसः आचर्यते। अस्मिन् अवसरे राज्यस्य मुख्यमन्त्री डॉ. मोहन यादवः राज्यस्य जनानां कृते आह्वानं कृतवान् यत् मध्यप्रदेशं बालश्रमस्य शापात् मुक्तं भवतु। मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमेषु आलेखं लिखितवान् यत् बालश्रमविरुद्धविश्वदिवसः प्रेरयति यत् सभ्यसमाजस्य अस्य स्थानं न भवेत्, अस्य सामाजिकापराधस्य नियन्त्रणं करणीयम्। वंचितबालानां उत्तमस्वास्थ्यं, शिक्षा, समानता च प्रदातुं प्रयत्नेषु भागं ग्रहीतुं प्रत्येकस्य नागरिकस्य कर्तव्यम् अस्ति। बालश्रममुक्तं समाजं कुर्मः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani