मुख्यमंत्री विष्णुदेव सायः कोरबा जिलायै 223 कोटिमितानां विकास कार्याणामुपहारः
कोरबा 12 जूनमासः (हि.स.)।मुख्यमन्त्रिणा विष्णुदेवसायेन कोरबा जनपदस्य कृते प्रवासकाले गुरुवासरे जनपदवासिभ्यः ४१ सहस्राधिक 88लक्ष्योत्तर223कोटिमितानां रूप्यकाणां व्ययेन निष्पाद्यमानानां ६६ विविधविकासकार्याणां समर्पणं कृतम्। श्रीसायकृते विविधविभागाणां
मुख्यमंत्री विष्णुदेव साय ने कोरबा जिले को दी 223 करोड़ की विकास कार्यों की सौगात


कोरबा 12 जूनमासः (हि.स.)।मुख्यमन्त्रिणा विष्णुदेवसायेन कोरबा जनपदस्य कृते प्रवासकाले गुरुवासरे जनपदवासिभ्यः ४१ सहस्राधिक 88लक्ष्योत्तर223कोटिमितानां रूप्यकाणां व्ययेन निष्पाद्यमानानां ६६ विविधविकासकार्याणां समर्पणं कृतम्। श्रीसायकृते विविधविभागाणां अन्तर्गतं क्रियमाणानां षट्षष्टेः विकासकार्याणां लोकार्पणं, भूमिपूजनं, शिलान्यासश्च कृतः।

एतेषु विकासकार्येषु २४ कोटि १० लक्ष ७० सहस्ररूप्यकाणां व्ययेन निष्पन्नानां १६ कार्याणां लोकार्पणं च, १९९ कोटि ७७ लक्ष ७१ सहस्ररूप्यकाणां व्ययेन सम्पद्यमानानां ५० कार्याणां भूमिपूजनं तथा शिलान्यासश्च सम्मिलितः अस्ति।

अस्मिन् प्रसङ्गे मुख्यमन्त्रिणा श्रीसायेन कन्वेन्शनसेण्टरमध्ये लोकमाता महाराणी अहल्याबाई होल्करस्य प्रतिमायाः लोकार्पणं कृतम्। तथा कन्वेन्शनसेण्टरं लोकमाता महाराणी अहल्याबाई होल्कर-नाम्ना नामकृतम्।

श्रीसायकृते क्रियमाणेषु १६ लोकार्पणकार्येषु लोकस्वास्थ्ययन्त्रविभागस्य अन्तर्गतं १५ कोटि ०६ लक्ष ७७ सहस्ररूप्यकाणां व्ययेन ११ कार्याणां लोकार्पणं सम्पन्नम्। जलजीवनमिशनान्तर्गतं ग्राम-केरवाद्वारी, डूमरडीह, कोरकोमा, कसईपाली, बारी उमरांव, कपोट, नुनेरा, कोटमर्रा, लैंगा, बेतलो, सरपता इत्येषु एकल-ग्राम-योजनाः सम्मिलिताः।

स्वास्थ्यविभागस्य अन्तर्गतं भैसमा, कुदमुरा, पसान इत्येषु नवप्राथमिक-स्वास्थ्यकेन्द्र-भवनानां निर्माणं ७५-७५ लक्षरूप्यकव्ययेन सम्पन्नम्। नगरपालिकनिगमकोरबान्तर्गतं ३ कोटि ५८ लक्षरूप्यकव्ययेन स्वामी आत्मानन्द हिन्दी माध्यम विद्यालये एनसीडीसी कोरबा मध्ये नवीन-भवन-निर्माणं तथा जीर्णोद्धारकार्यं कृतम्। क्रेडा विभागेन ३ कोटि २० लक्ष ७० सहस्र ९२० रूप्यकव्ययेन कोरबा जनपदस्य ४७ छात्रावासेषु/आश्रमेषु २.४ किलोवाट-क्षमतायुक्त-सौर्य-विद्युत्-संस्थापनकार्यं कृतम्।

भूमिपूजनकार्येषु नगरीयप्रशासनविभागेन नगरपालिकनिगमकोरबा तथा नगरपालिकापरिषद्दीपका इत्यत्र डीएमएफ, १५विं वित्तायोजनायाः अन्यैः च स्रोतःभिः १५ कोटि ३८ लक्ष ८५ सहस्ररूप्यकव्ययेन ९ कार्याणां भूमिपूजनं/शिलान्यासः कृतः।

तेषु प्रमुखकार्येषु सम्मिलन्ति

६ कोटि ६६ लक्ष ३५ सहस्ररूप्यकव्ययेन १५विं वित्तान्तर्गतं १०० टीपीडी ठोस अपशिष्ट प्रबन्धन-प्रकल्पः।

५ कोटि ७८ लक्ष ०१ सहस्ररूप्यकव्ययेन प्रधानमन्त्री ई-बस सेवा योजनान्तर्गतं सिटी बस डिपो/टर्मिनल कॉम्प्लेक्स निर्माणम्।

४१ लक्ष १३ सहस्ररूप्यकव्ययेन १०० शय्यायुक्त चिकित्सालये एसएनसीयू सभागृह, गैलरी शेड्, रैम्प्, सीमा-प्राचीर च।

६१ लक्षरूप्यकव्ययेन वार्ड ३२ मध्ये प्रशिक्षण-सभागृह-निर्माणम्। ५० लक्षरूप्यकव्ययेन वार्ड ३१ मध्ये प्रशिक्षणगृह-निर्माणम्।

२५ लक्षरूप्यकव्ययेन अयोध्यापुरी-तडागे जल-संवर्धनार्थं निर्माणम्।

४२ लक्ष ३१ सहस्ररूप्यकव्ययेन भूमिजल-स्रोत-सुधारार्थं रिचार्ज वेल्, डिसिल्टिंग्, आयल्-ग्रीस्-ट्रैपिंग् च।

६८ लक्ष २० सहस्ररूप्यकव्ययेन दीपका परिषद्भ्यः गृहाणां पेयजल-सेवा-सम्बन्धी कार्यम्।

६ लक्ष ८५ सहस्ररूप्यकव्ययेन वार्ड ०६ मध्ये टॉवर रोडतः गणेश साहू गृहपर्यन्तं आरसीसी-नाली-निर्माणम्।

मुख्यमन्त्रिणा विष्णुदेव सायेन “एकं वृक्षं मातुः नाम्ना” इति अभियानान्तर्गतं रिसदी-कन्वेन्शन-सेण्टर-परिसरे सिन्धूरी-वृक्षस्य रोपणं कृतम्। उपमुख्यमन्त्रिणा अरुण सावेन मौलश्री-वृक्षस्य, मन्त्रिणा लखनलाल देवाङ्गनेन बादाम-वृक्षस्य च रोपणं सम्पन्नम्।

एतस्मिन् अवसरे एव श्रीमुख्यमन्त्रिणा सह अन्यैः अतिथिभिः लोकमातुः अहल्याबायाः जीवने आधारितं छायाचित्र-प्रदर्शनी अपि सप्रेमं निरीक्षिता।

---------------

हिन्दुस्थान समाचार