Enter your Email Address to subscribe to our newsletters
जौनपुरम्,12 जूनमासः (हि.स.)।वीरबहादुरसिंह-पूर्वाञ्चलविश्वविद्यालये महाविद्यालयानां विश्वविद्यालयपरिसरस्थपाठ्यक्रमानां च छात्राणां कृते द्विदिवसीय-रोजगारमेला गुरुवासरादारभ्य आयोजितः। अस्य उद्घाटनं महन्त्-अवेद्यनाथ-संगोष्ठी-भवने सम्पन्नम्।टीमलीज्-संस्थायाः सहयोगेन आयोजिते अस्मिन् जॉब्-फेयर्-नामके रोजगारमेले छात्राः उत्साहेन भागं गृहीतवन्तः।द्वितीयदिनं शुक्रवासरे विश्वविद्यालय-परिसरात् सह महाविद्यालयानां छात्राणामपि भागग्रहणाय अवसरः प्रदास्यते। प्रथमदिने ३३४ छात्राः मेलायाम् सहभागिनः अभवन्।१३ जून दिनाङ्के प्रातः नववादने चयनप्रक्रिया आरप्स्यते।उद्घाटन-सत्रे कुलपतिः प्रो. वन्दना सिंह छात्रान् सम्बोध्य अवदत् यदि छात्राः स्वकौशलस्य उत्कृष्टं प्रदर्शनं कुर्वन्ति चेत् निश्चितरूपेण सफलता लभ्यते। साक्षात्कारसमये आत्मविश्वासेन प्रश्नानां उत्तरं दातव्यम्। भाषा न बाधा, अपि तु ज्ञानप्रदर्शनस्य साधनम् – यदि हिन्दी भाषायां वक्तुं शक्नुथ, हिन्दी भाषायामेव वक्तव्यम्, यदि आङ्ग्लभाषायां वक्तुं शक्नुथ, तत्रैव। मुख्यं तु आत्मीयज्ञानस्य प्रस्तुतीकरणम्।मेलस्य संयोजकः प्रो. प्रदीपकुमारः उक्तवान् यत् अस्मिन क्षेत्रे छात्राणां कृते उत्तमानां रोजगारसंधीनां सुलभतायै एव विश्वविद्यालयेन एषः द्विदिवसीय-रोजगारमेला आयोजितः।तेन चयनप्रक्रियायाः विवरणं दत्तं यत् १३ जून दिनाङ्के विश्वविद्यालयपरिसर-छात्रैः सह महाविद्यालय-छात्राणामपि आमन्त्रणं कृतम्। स्नातक-परास्नातक-अन्तिमवर्षीयाः तथा उत्तीर्णाः छात्राः अपि भागं गृह्णीयुः।केन्द्रीय-नियोजन-कक्षस्य निदेशकः प्रो. अविनाश-पाथर्डीकरः मेलायाः सन्दर्भे आगतानां कम्पनी-प्रतिनिधीनां स्वागतं कृत्वा विश्वविद्यालयेन छात्राणां कृते यत् रोजगार-संबन्धि-प्रयत्नाः क्रियन्ते तेषु प्रकाशं कृतवान्।धन्यवादज्ञापनं डॉ. नितेश् जायसवालः कृतवान्। उद्घाटनसत्रानन्तरं प्री-प्लेसमेंट् संवाद-सत्रम् आयोज्यते स्म।अस्मिन् सत्रे टीमलीज्-प्रतिनिधिः मोहम्मद् अशद् छात्रान् विविध-कम्पनी-रोजगार-संधिषु अवगतवान्।परीक्षानियन्ता डॉ. विनोदकुमारसिंहः, आईक्यूएसी-वह्य-विशेषज्ञः विनीतेन्द्रसिंहः, टीमलीज्-प्रतिनिधी अभिनव-श्रीवास्तवः, अभिषेकत्रिपाठिः च, मंचे उपविष्टाः आसन्। सत्रस्य संचालनं डॉ. सुशीलकुमारः कृतवान्।टीमलीज्-संस्थायाः सहयोगेन आयोजेते अस्मिन् जॉब्-फेयर् इन्क्यूबेशन-केन्द्रे चयनप्रक्रिया अपि सम्पन्ना।येषां पदानां कृते चयनप्रक्रिया अभवत् ताः संस्थाः आसन्—ELGi, IntelliSmart Private Limited, WeProtect, Credilo, RBL Bank, SBI Cards, Airtel Engineer, Airtel Xstream Fiberअस्मिन् प्रकारेण विश्वविद्यालयेन छात्राणां कृते रोजगारोपलब्ध्यै सार्थकः प्रयासः कृतः।
हिन्दुस्थान समाचार