सस्ये रोगाणां परिचयाय आरप्स्यते ड्रोन पायलट परियोजना
मुख्यमंत्री स्वीकृतवान् ड्रोन इमेजिंग एंड इंफॉर्मेशन सर्विसेज ऑफ हरियाणा लिमिटेड इत्यस्य उपवेशनम् चंडीगढम्, 12 जूनमासः (हि.स.)। हरियाणाराज्ये ‘दृश्या’ संस्थायाः निदेशक-मण्डलस्य बैठकायाः निर्णया। गते गुरुवासरे हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहसै
हरियाणा के मुख्यमंत्री नायब सैनी दृश्या की बैठक लेते हुए


मुख्यमंत्री स्वीकृतवान् ड्रोन इमेजिंग एंड इंफॉर्मेशन सर्विसेज ऑफ हरियाणा लिमिटेड इत्यस्य उपवेशनम्

चंडीगढम्, 12 जूनमासः (हि.स.)।

हरियाणाराज्ये ‘दृश्या’ संस्थायाः निदेशक-मण्डलस्य बैठकायाः निर्णया। गते गुरुवासरे हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहसैनी महोदयस्य अध्यक्षतायाम् ड्रोन इमेजिंग एण्ड इन्फर्मेशन सर्विसेस् ऑफ् हरियाणा लिमिटेड (दृश्या) इत्यस्य संस्थायाः निदेशक-मण्डलस्य बैठकम् आयोजिता आसीत्। अस्यां बैठकायां राज्ये ड्रोन-तन्त्रज्ञानस्य विविधोपयोगानाम् विषये अनेकानि महत्वपूर्णानि निर्णयानि स्वीकृतानि।

मुख्यमन्त्रिणा आदेशः दत्तः यत् पायलट् परियोजनारूपेण कृषी-स्वास्थ्यनिरीक्षणाय च रोग-परीक्षणाय च ड्रोन-यन्त्रस्य उपयोगः करणीयः। अनेन कृषकाः समये सूचनां प्राप्य फसलहानेः निरोधं कर्तुं शक्नुवन्ति।

मुख्यमन्त्री सैनी महोदयः अपि सुझावं दत्तवान् यत् पायलट्-चरणे आलूक, चणकः, कर्पासः, धान्यं, शाकवर्गः इत्यादयः फसलाः समावेशनीयाः, यत्र सामान्यतः रोगाणां सम्भावना अधिका दृश्यते। तेन कृषकाणां उत्पादनं वर्धिष्यते, हानिः च न्यूनतां यास्यति।

मुख्यमन्त्रिणा एव निर्देशः दत्तः यत् ‘ड्रोन-दीदी-योजनायाः’ अन्तर्गतं प्रदेशे ५,००० महिलाभ्यः ड्रोन-तन्त्रस्य प्रशिक्षणं देयम्। दृश्या-संस्थायाः अधिकारिणः प्रति निर्देशः दत्तः यत् अगामिषु त्रैमासिके प्रायः ५०० महिलाभ्यः प्रशिक्षणस्य कार्ययोजना निर्मीयताम्। अयं उपक्रमः महिलाः तकनीकीरूपेण सशक्त्य स्व-जीविकायै सन्धीः दास्यति।

मुख्यमन्त्रिणा निर्देशः अपि दत्तः यत् ड्रोन-तन्त्रज्ञानस्य उपयोगः प्राकृतिक-कृषे विशेषतः जीवामृतस्य सेचनं क्रियेत।

दृश्या-संस्थायाः मुख्य-कार्यपालक-अधिकारी (CEO) श्री फूलकुमारः मुख्यमन्त्रिणं सूचितवान् यत् दृश्या इत्येन संस्था HT पावर-लाइन-निरीक्षणम्,विस्तीर्ण-मानचित्रणम्,आपत्काल-प्रबन्धनम्,यातायात्-निगमन-प्रबन्धनम्,

अनधिकृत-खनन-निगरक्षणम्,

कृषि-स्वास्थ्य-निरीक्षणम् इत्यादीनि कार्याणि सफलतया सञ्चालयति। विस्तीर्ण-मानचित्रण-परियोजनायाः अन्तर्गतं ६१०० वर्गकिलोमीटर् क्षेत्रं यावत् आवृतम्। इदानीं यावत् २१ HT पावर लाइनानां ६८० किलोमीटर् क्षेत्रस्य निरीक्षणं सफलतया सम्पन्नम्, येन समये नैकाः तकनीकी-दोषाः ज्ञाताः च परिष्कृताश्च। कृषकाणां प्रशिक्षण-कार्यक्रमेण अद्यावधि १३५ कृषकाः प्रशिक्षिताः सन्ति। एवं हरियाणाराज्ये दृश्या-संस्थायाः नेतृत्वेन ड्रोन-तन्त्रज्ञानं कृषौ, पर्यावरणे, आपत्काले, खनने च प्रभावकारीरूपेण प्रयुज्यते, तथा महिला सशक्तीकरणाय अपि नवदिशा उद्घाट्यते।

---------------

हिन्दुस्थान समाचार