Enter your Email Address to subscribe to our newsletters
जोधपुरम्, 12 जूनमासः (हि.स.)।विश्व-हिन्दु-परिषदस्य जोधपुर-प्रान्ते आयोजिते प्रशिक्षण-वर्गे गुरुवासरे सामाजिक-समरसता विषयकं बौद्धिकं सत्रं सम्पन्नम्। अस्मिन् सत्रे प्रान्त-सह-मन्त्री श्रीमहेन्द्र-उपाध्यायः भाषणं कृत्वा अवदत् यद् हिन्दु-समाजे विद्यमानं जाति-मत-पन्थ-भेदं परित्यज्य सर्वान् समदृष्ट्या पश्यति चेत् स एव सामाजिक-समरसता-भावः। अयं भावः अस्माकं सनातन-धर्मस्य मूलतत्त्वम् अस्ति।ते उक्तवन्तः यत् सामाजिक-समरसता केवलं घोषवाक्यं नास्ति, अपि तु राष्ट्रस्य अखण्डता, सुरक्षा, स्थैर्यं च एतानां सर्वेषां आधारभूतं तत्त्वमेव। यावत् समाजे आपसी-भेदभावः, छूआछूत्-अश्पृश्यता च वर्तते, तावत् शक्तिशाली-समाजं राष्ट्रं च निर्माणं कर्तुं न शक्यते।
ते अपि अवदन्—स्पर्श्यास्पर्शता जाति-भेदश्च इस्लामिक-आक्रमणानां दुष्परिणामः अस्ति, न तु हिन्दु-जीवन-पद्धतेः अङ्गम्। हिन्दु-दर्शनं तु प्राणिमात्रेषु परमात्मानं पश्यति। इदम् एव अस्माकं तत्त्वम्।वेदेषु, पुराणेषु, उपनिषत्सु च अस्य (छूआछूतस्य) कश्चन अपि उल्लेखः न दृश्यते। वामपन्थीभिः एतेषां धर्मग्रन्थानां मिथ्याव्याख्यानं कृत्वा छूआछूतं धर्मपरम्परायाः भागं इति दर्शयितुं षड्यन्त्रं रचितम्, येन समाजः विखण्डितः भवेत्, दुर्बलः च।विश्वहिन्दुपरिषद् तु स्व-स्थापनाकालात् आरभ्य सामाजिक-समरसतायै निरन्तरं कार्यं कुर्वती अस्ति। अनेके आन्दोलनाः, जनजागरण-अभियानाः, सन्तानां प्रेरणया च समाजं एकत्वेन बद्धुं प्रयत्नाः सततम् क्रियन्ते।
श्री-उपाध्यायः कार्यकर्तृभ्यः आवाहनं कृतवान् भवतः आचरणेन एव समाजे समरसताया वातावरणं निर्मीयताम्। हिन्दु-समाजः एकः अस्ति, सदा एकः एव भविष्यति – एषः एव अस्माकं दृढ-सङ्कल्पः भवेत्। सत्रारम्भे वर्ग-अधिकारी श्रीसुरेशकुमारः अतिथेः परिचयं प्रदत्तवान्। ततः वर्ग-सह-बौद्धिक-प्रमुखः श्रीभूपेश-वैष्णवः तं सादरं स्वागतम् अकरोत्।अस्मिन्नवसरे प्रान्तीय, विभागीय, जिलास्तरीय-पदाधिकारीणः, वर्ग-व्यवस्थायां नियोजिताः शिक्षकगणः, प्रबन्धकगणश्च अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार