Enter your Email Address to subscribe to our newsletters
रायपुरम्, 13 जूनमासः (हि.स.)।
छत्तीसगढ़राज्यस्य दुर्गनगरस्य विधायकः, भारतीयजनतापक्षस्य गजेन्द्रयादवः, अद्य प्रातःकाले बॅड्मिण्टन्-क्रीडां कुर्वन् आकस्मिकं मूर्च्छां प्राप्य भूमौ पतितवान्। तं चिकित्सालये उपचारार्थं भर्ती कृतम्, यत्र तस्य चिकित्सा प्रवर्तमानैव अस्ति। अधुना तस्य अवस्था स्थिरा अस्ति, सः वैद्यकनिग्रहे स्थितः अस्ति।
तस्य बान्धवजनैः सूचितं यत् तं दुर्गनगरस्थे आरोग्यम् चिकित्सालये प्रवेशितवन्तः, यत्र वैद्यैः तस्मै पूर्णनिद्रायाः विश्रान्तेः च परामर्शः दत्तः। विधायकगजेन्द्रयादवस्य चिकित्सा चिकित्सालये प्रवर्तमानैव अस्ति।
एषा वार्ता प्राप्ता इत्येव, भारतीयजनतापक्षस्य सर्वे जिलाध्यक्षाः, महामन्त्रिणः, महापौर-श्रीमती अल्का-बाघमार्, निगमस्य पार्षदः, काँग्रेस्-पक्षस्य वरिष्ठनेतारः, दुर्गनगरस्य भूतपूर्वविधायकः अरुणवोरा च अपि चिकित्सालयं गत्वा तस्य कुशलता अपृच्छन्।सर्वे अपि वैद्यैः सह उपचारविवरणं ज्ञातवन्तः तथा च गजेन्द्रयादवस्य शीघ्रं स्वास्थ्यलाभं प्रार्थितवन्तः।
हिन्दुस्थान समाचार