बचपन से ही मूक बधिर निधि ने अपने हुनर के दम पर बदली पूरी जिंदगी
-ब्लॉक प्रिंटिंग बनी निधि की आवाज, हुनर जो शब्दों से परे है पटना, 13 जून (हि.स.)।यदा जीवनं कस्यचित् जनस्य वाक्श्रवणशक्तिं न ददाति, तदा निधिवत् कलाकारः स्वकलामेव स्ववाणीं करोति। स्वकौशलस्य आधारतः सम्पूर्णं जीवनं परिवर्तयति। निधिः स्वदृढसंकल्पेन सत्यन
मूक बधिर निधि की फोटो


-ब्लॉक प्रिंटिंग बनी निधि की आवाज, हुनर जो शब्दों से परे है

पटना, 13 जून (हि.स.)।यदा जीवनं कस्यचित् जनस्य वाक्श्रवणशक्तिं न ददाति, तदा निधिवत् कलाकारः स्वकलामेव स्ववाणीं करोति। स्वकौशलस्य आधारतः सम्पूर्णं जीवनं परिवर्तयति। निधिः स्वदृढसंकल्पेन सत्यनिष्ठया च सर्वान् विघ्नान् अतिक्रम्य उत्तमं स्थानं प्राप्तवती अस्ति।

सहरसाजनपदे निवसन्ती निधिकुमारी जन्मतः एव मूकबधिरा अस्ति, तथापि पारम्परिकं ब्लॉक-प्रिन्टिंगकलां स्वजीवनरूपेण स्वीकृतवती। सा एव कला, या अधुनातनकाले तस्या व्यक्तित्वं संवादस्य च माध्यमं जाता।

निधिः अष्टवर्षवयस्यां प्रारभ्य ब्लॉक-प्रिन्टिंगकलेः सूक्ष्मता अधीतवती। कठिनताः सन्तीति अपि, सा अस्मिन् प्राचीनहस्तकलाविशये निपुणतां प्राप्तवती, यस्मिन् लकुटीयैः ब्लॉकेषु वस्त्रेषु हस्तेन अलङ्कृताः आङ्कनानि क्रियन्ते। अधुना तया निर्मितानि चित्राणि केवलं सौन्दर्येन विशिष्टानि न सन्ति, अपि तु तस्याः भावनाः दृष्टिकोणं च वाच्यं विना एव प्रकाशयन्ति।

उपेन्द्रमहार्थीशिल्पअनुसन्धानसंस्थायाम्, पटने प्रशिक्षणे काले निधिना परम्परागतब्लॉकप्रिन्टिंगप्रविधिषु निपुणता प्राप्ता। सा अनेकेषु जिलास्तरीयकला-स्पर्धासु भागं गृहीत्वा पुरस्कारान् अपि प्राप्तवती। साथमेव बिहारकला-उत्सवसदृशेषु विशिष्टेषु मंचेषु स्वकलेन प्रदर्शनं कृत्वा राज्यस्य गौरवं वर्धितवती।

निधेः छपितानि चित्रकर्माणि ग्राम्यजीवनस्य, प्रकृतेः, लोकपरम्पराणां च जीवन्तदर्शनं ददाति। तस्याः प्रत्येकप्रिन्टे अनुशासनं भावनानां च गम्भीरता स्पष्टं दृश्यते।

---------------

हिन्दुस्थान समाचार