गुरु हरगोबिंद साहिबस्य प्रकाशोत्सवः 26 दिनाङ्के
रांची,13 जूनमासः (हि.स.)। श्रीगुरुनानक-सत्सङ्ग-सभायाः अनुशाङ्गिक-संगठनस्य स्त्री-सत्सङ्ग-सभायाः तर्फतः २६ जून दिनाङ्के गुरोः श्रीहरगोबिन्दसाहेबस्य प्रकाशोत्सवः आयोज्यते। अस्मिन् अवसरे गुरुद्वारे १६ जूनतः २६ जूनपर्यन्तं प्रतिदिनं मध्याह्ने ३.३० वादन
फ़ाइल फ़ोटो


रांची,13 जूनमासः (हि.स.)।

श्रीगुरुनानक-सत्सङ्ग-सभायाः अनुशाङ्गिक-संगठनस्य स्त्री-सत्सङ्ग-सभायाः तर्फतः २६ जून दिनाङ्के गुरोः श्रीहरगोबिन्दसाहेबस्य प्रकाशोत्सवः आयोज्यते।

अस्मिन् अवसरे गुरुद्वारे १६ जूनतः २६ जूनपर्यन्तं प्रतिदिनं मध्याह्ने ३.३० वादनात् ४.४५ वादनपर्यन्तं श्रीसुखमणिसाहिबस्य सामूहिकपाठः सम्पादितव्यः इति सूचना सभायाः माध्यमप्रभारी नरेश-पपनेजा महोदयेन शुक्रवासरे प्रदत्ता।

---------------

हिन्दुस्थान समाचार