Enter your Email Address to subscribe to our newsletters
कोलकाता, 13 जूनमासः (हि.स.)।
अहम्मदाबादनगरस्य मेघानिनगरप्रदेशे गुरुवासरे जातं भीषणं विमानदुर्घटनां दृष्ट्वा कोलकातानगरे स्थितं विमानपत्तनस्य समीपे वसत्सु सहस्रशः जनाः अतिविशङ्कां प्राप्तवन्तः। एयर्-इण्डिया संस्थायाः लण्डनगामिनी फ्लाइट् — बोइंग् ७८७-८ ड्रीमलाइनर विमानम् — बी.जे. मेडिकल्-कालेजस्य स्नातक-छात्रगृहस्य उपरि पतितम्। अस्मिन् भयंकरदुर्घटनायां पाइलट्, चालकदलेन सह समस्तयात्रिकाणां मिलित्वा २४२ जनानां मृत्युः जातः। छात्रगृहे निवसन्तः बहवः वैद्यकीय-छात्राः अपि मृत्युमुपगताः।
एतस्य दुर्घटनायाः विकटचित्राणि दृष्ट्वा कोलकाता-विमानपत्तनस्य उत्तरे दक्षिणे च स्थितेषु क्षेत्रेषु — यथा माइकेलनगर, न्यू बैरकपुर, बिराटी, गङ्गानगर, मध्यमग्राम, कैखाली, चिनार् पार्क्, राजारहाट्, न्यू टाउन इत्यादिषु — भयस्य वातावरणं समुत्पन्नम्। प्रतिदिनं शतशः विमानानि एतेषां निवासक्षेत्राणां उपरि उड्डीयन्ति।
कोलकाता-वायुसञ्चार-नियन्त्रणकक्षस्य अनुसारं, नेताजी सुभाषचन्द्रबोस-अन्तर्राष्ट्रीय-विमानपत्तनात् प्रतिदिनं लगभग् ३५० विमानानि आरोहणं अवरोहणं च कुर्वन्ति। रनवे-मार्गस्य उत्तरदिशायां माइकेलनगर, बिराटी, गङ्गानगर, मध्यमग्राम इत्येते क्षेत्राणि स्थितानि; दक्षिणदिशायां तु कैखाली, चिनार पार्क्, राजारहाट्, न्यू टाउन इत्येतेषु विमानानां गतिर्भवति।माइकेलनगरवासी सचिनमिस्त्री नामकः उक्तवान्— “पूर्वं कदापि नासीत् यत् अस्माकं मस्तके संकटं मण्डलति इति। अद्य अहमदाबाददुर्घटनां दृष्ट्वा भयेन पश्यामः यत् कदाचिदस्माकं सन्दर्भे अपि एवं स्यात्।” न्यू बैरकपुरप्रदेशे वसन्ती गृहिणी मिनती पाल इत्याख्याया अवदत्— “प्रतिदिनं मम मस्तकस्य उपरि विमानानि गच्छन्ति। यदि किञ्चन विमानं तन्त्रदोषेण पतति चेत् किं भविष्यति?किन्तु, केचन जनाः एतादृशं जीवनस्य अनिश्चिततारूपं भागं मन्यन्ते। बिराटीप्रदेशस्य सॉफ्टवेयर अभियन्ता सोहम हलदार इत्याख्यः उक्तवान्— “दुर्घटनाः कुत्रापि सम्भवन्ति। यदि जनाः मार्गदुर्घटनात् भीत्वा गृहे स्थितुं निर्णयं कुर्वन्ति, तर्हि जीवनमेव स्थगिष्यते।
हिन्दुस्थान समाचार