विमानघटनायां डोंबिवलीवायुपरिचायिका रोशनी न अवर्तत
मुंबई,13जूनमासः ( हि.स.) ।ह्यः सम्पन्ने एयर इंडिया इत्यस्य विमानदुर्घटनायां मुम्बई-समीपवर्ती ठाणे-जिलस्य डोंबिवली-पूर्वभागे निवसन्त्या: 26-वर्षवयस्काया: कुमारी रोश्नी राजेन्द्र सोंघरे नाम्न्याः दुःखदं निधनं जातम्।ठाणे-जनपदस्य सूचना-प्रसारण-अधिकारी मन
विमानघटनायां डोंबिवलीवायुपरिचायिका रोशनी न अवर्तत


मुंबई,13जूनमासः ( हि.स.) ।ह्यः सम्पन्ने एयर इंडिया इत्यस्य विमानदुर्घटनायां मुम्बई-समीपवर्ती ठाणे-जिलस्य डोंबिवली-पूर्वभागे निवसन्त्या: 26-वर्षवयस्काया: कुमारी रोश्नी राजेन्द्र सोंघरे नाम्न्याः दुःखदं निधनं जातम्।ठाणे-जनपदस्य सूचना-प्रसारण-अधिकारी मनोज सानप नामकः अद्य उक्तवान् यत् — डोंबिवली-पूर्वप्रदेशे स्वपरिवारसहितं निवसन्ती कुमारी रोश्नी अहमदाबादे जाते विमान-दुर्घटनायाः परिणामस्वरूपं दुःखदं मृत्युमुपगता अस्ति।सा एयर इंडिया-संस्थायां एयर होस्टेस् पदे कार्यरतासीत्। गौरवास्पदं यत् अहमदाबादे जातस्य विमानदुर्घटनायाः समाचारं श्रुत्वा डोंबिवली-नगरं सम्पूर्णं शोकाकुलं जातम्।एषा 26-वर्षीया कुमारी रोश्नी डोंबिवली-पूर्वे मण्डोवी बंगला, हुमाया बिल्डिंग, भूमितले स्थिते निवासे स्वमाता-पित्रोः सह वसति स्म। तस्याः परिवारस्य सदस्याः निम्नप्रकारेण सन्ति 1. पिता – राजेन्द्र धोंडू सोंघरे, आयुः 50 वर्षीयः, 2. माता – शोभा राजेन्द्र सोंघरे, आयुः 45 वर्षीया 3. अनुजः – विघ्नेश राजेन्द्र सोंघरे, आयुः 23 वर्षीया कुमारी रोशनी एयर इंडिया इत्यस्मिन् संस्थायाम् एयर होस्टेस् पदे कार्यं कुर्वन्ती आसीत्।

---------------

हिन्दुस्थान समाचार