Enter your Email Address to subscribe to our newsletters
रांची, 13 जूनमासः (हि.स.) ।झारखण्डराज्ये १५ जूनात् परं उष्णतायाः उमसश्च विश्रान्तिः भविष्यति – वातावरणविभागस्य सूचना। झारखण्डराज्ये १५ जूनतिथेः अनन्तरं प्रचण्डतापः च उमसः च शमं गमिष्यतः इति मौसमविभागेन सूचितम्। राज्ये दक्षिण–पश्चिम–मान्सूनः २० जूनतिथेः समीपे आगमिष्यति इति सम्भावना अस्ति। तथापि, तस्यानागमात्पूर्वं सम्पूर्णे राज्ये तीव्रा ऊष्णता उमसश्च प्रभविष्यतः। एतेषु दिनेषु कतिपयेषु भागेषु विखण्डितवृष्टेः सम्भावनापि अस्ति। तेन तापमानं न्यूनीभविष्यति, जनाः च ऊष्णतायाः त्रासात् विश्रान्तिं लप्स्यन्ते। एषा सूचना मौसमविभागेन शुक्रवासरे प्रदत्ता।
विभागेन उक्तं यत् १५ जूनत: १८ जूनपर्यन्तं झारखण्डराज्यस्य विविधेषु जनपदेषु लघु–मध्यमस्तरीया वृष्टिः सम्भाव्यते। तस्मात् पूर्वं १४ जूनतिथौ राज्यस्य अनेकभागेषु मेघगर्जनं, आकाशीयविद्युत्पातः च, ४०–५० कि.मी. प्रतिघण्टं वेगेन वातप्रवाहः च सम्भाव्यः।
गतचतुर्विंशतिघण्टाभ्यन्तरे राज्ये सर्वाधिकवृष्टिः पश्चिमसिंहभूमजनपदस्य झींकपानि–स्थले १८ मि.मी. परिमाणेन अभवत्। एवं च राज्ये सर्वाधिकं अधिकतमतापमानं डाल्टेनगंज–प्रदेशे ४०.१ डिग्री सेल्सियस् मापितम्, न्यूनतमं तापमानं लातेहार्–प्रदेशे २२.१ डिग्री सेल्सियस् अभवत्।
शुक्रवासरे राँची नगरे तस्य च समीपप्रदेशेषु आकाशं प्रायः स्पष्टम् आसीत्, दिने कदाचित् मेघमालाः दृष्टाः। तथापि उष्णतायाः त्रासात् जनाः विश्रान्तिं न प्राप्तवन्तः। राँच्यां ३४ डिग्री, जमशेदपुरे ३५.८ डिग्री, डाल्टेनगंजे ४०.१ डिग्री, बोकारो–प्रदेशे ३६.५ डिग्री, चाईबासायाम् ३५.८ डिग्री सेल्सियस् तापमानं लेखितम्।
---------------
हिन्दुस्थान समाचार