जम्मू-श्रीनगर राष्ट्रिय राजमार्गो यातायाताय उद्घटितः
जम्मूः, 13 जूनमासः (हि.स.)।जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गः अद्य वाहनचालनाय उद्घाटितः अस्ति। एतेषु मध्ये लघुवाहनानां कृते राजमार्गस्य उभयतः गमनागमनाय अनुमतिः दत्ता अस्ति, यदा कि स्थूलवहानानां कृते केवलं श्रीनगरतः जम्मूपर्यन्तं गमनाय एव अनुमति दीया अ
national highway


जम्मूः, 13 जूनमासः (हि.स.)।जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गः अद्य वाहनचालनाय उद्घाटितः अस्ति। एतेषु मध्ये लघुवाहनानां कृते राजमार्गस्य उभयतः गमनागमनाय अनुमतिः दत्ता अस्ति, यदा कि स्थूलवहानानां कृते केवलं श्रीनगरतः जम्मूपर्यन्तं गमनाय एव अनुमति दीया अस्ति।

यातायातविभागस्य अधिकारी उक्तवान् यत् जम्मू-श्रीनगर-राष्ट्रीय-मार्गे वाहनानां गमनागमनं नित्यवत् प्रवहति। लघुवाहनानां स्वकक्षायामेव गन्तव्यमिति निर्देशः दत्तः अस्ति। तथा तीव्रगत्या वाहनचालनं, अथवा ओवरटेक नामकं कर्म अपि वर्जनीयं इति अपि चेतावनी प्रदत्ता अस्ति, येन मार्गे जामः इत्याख्या स्थितिः न उत्पद्यते।

एतेषु मध्ये, लघुवाहनानि जम्मूतः श्रीनगरं प्रति च श्रीनगरतः जम्मुं प्रति च उभयदिशं प्रेषितानि सन्ति, यदा कि स्थूलवहानानि केवलं श्रीनगरतः जम्मुं प्रति प्रेषणाय अनुमत्यन्ते।

विभागेन यात्रिकेभ्यः अपील् कृतम् यत् ते स्वयात्रां आरभ्यमाणां कृत्वा पूर्वं यातायात-नियन्त्रण-कक्षेण सह सम्पर्कं कुर्वन्तु, येन ते पश्चात् कोऽपि क्लेशः न अनुभवेयुः।

एतेषु समये राजौरी-पुंछ-जिलानां दक्षिण-कश्मीरस्थ-शोपियां नगरं प्रति संयोजयन् मुगलमार्गः अपि वाहनचालनाय पुनः उद्घाटितः अस्ति।

हिन्दुस्थान समाचार